________________
९ सर्गः]
द्विसंधानम्। उत्सन्नगौरवकुलः पुंनागोल्लासवर्जितः। निरन्तरवितापात्मा निजभूमहिमोज्झितः ॥ १२ ॥ येन श्रीरुद्धता मुक्ताफलसंघातपत्रजा । तेन श्रीवृक्षमात्रेण किंचिदालक्षितोदयः ॥ १३ ॥ उद्गिरन्निव संतापमभ्यग्रामन्दमाकुलम् । सुग्रीवोपेतदारं तं नृपति शुचिराययौ ॥ १४ ॥
(चतुर्भिः कुलकम्) अन्यदा अन्यस्मिन् काले उद्भूतभूपरागेण उद्भूतो भूपस्य रागो येन तेन सदागतेरप्र. तिहतशासनस्य साहसगतेविटसुग्रीवस्य विघातेन विलोलितगृहाश्रमः परित्यक्तगृहस्थाश्रमस्त्यक्तभार्यः, उत्सन्नगौरवकुलः विध्वस्तमाहात्म्यकान्वयकः, पुनागोल्लासवर्जितः प्रधानपुरुपानन्दवर्जितः, निरन्तरवितापात्मा सततसंतप्तात्मा, निजभूमहिमोज्झितः स्वीयक्षितिमाहात्म्याभ्यामुज्झितः, येन उद्धतोल्बणा फलसंघातपत्रजा फलानां भोगोपभोगलक्षणानां संघातेन संपत्त्या पत्रैर्गजतुरगादिभिश्च जाता, श्रीलक्ष्मीर्मुक्ता । यद्वा मुक्ताफलसंघातपत्रजा मुक्ताफलानां संघो यत्र तस्मादातपत्राज्जाता श्रीः शोभा उद्धता विध्वस्ता। तेन श्रीवृक्षमात्रेण दक्षिणस्तनोपरिशुभलक्षणविशेषेण, किंचित्स्वल्पम् आलक्षितोदयः, शुचिरकुटिलः सुग्रीवः संतापम् उद्गिरन् इव सन्, दमाकुलं दण्डनीतिव्यग्रम्, अपेतदारमपगतभार्य तं नृपति रामम् अभ्यग्रामसंमुखं यथा स्यात्तथा आययौ ॥ भारतीये-उद्भूतभूपरागेण उद्भूतः भुवः परागो येन तेन, साहसगतेः शीघ्रप्रवर्तमानस्य, सदागतेर्वायोः, विघातेनोपद्रवेण, विलोलितगृहाश्रमः विक्षिप्तमन्दिरतपस्विवसतिः, उत्सन्नगौरवकुल: नाशितसितबकुलः, पुनागोलासवर्जितः पुंनागानां वृक्षविशेषाणामुल्लासेन पल्लवितकुसुमितभावेन वर्जितः, निरन्तरवितापात्मा अनन्तेन रवितापेन युतात्मा, निजभूमहिमोज्झितःस्वीयबाहुल्येन दूरीकृतशीतः, येन फलसंघातपत्रजा फलसमूहपर्णजाता उत्कटा शोभा मुक्ता तेन श्रीवृक्षेण पिप्पल. क्षेण, संतापमुनिरन् इव शुचिर्दीष्मः, अभ्यग्रामन्दम् अभिनवजवम् , आकुलं व्यग्रं, सु. ग्रीवोपेतदारं शोभनग्रीवायुक्तकलत्रकम्, तं नृपतिं जरासंधम् ॥ श्लेषः ॥
निपीड्यासनमावेद्य खं साहसगति तथा ।
प्रवृद्धमायासमयं स प्रतापमपप्रथत् ॥ १५ ॥ निपीड्येति ॥ स सुग्रीवः, आसनं निपीड्य उपविश्य स्वं स्वीयं साहसगतिं विटसुग्रीवम् आवेद्य निरूप्य प्रवृद्धमायासमयं विस्तारितकौटिल्यकालम् विटसुग्रीवस्य प्रतापम् अपप्रथत् प्रथयामास ॥ भारतीये-स ग्रीष्मः साहसगतिं साहसी गतिर्यस्य तादृशं स्वम् आवेद्य असनं वीजवृक्षं निपीड्य प्रवृद्धं प्रौढिमन्तम्, आयासमयम् आयासप्रचुरम्, स्वस्य प्रतापमू अपप्रथत् ॥ श्लेषः ॥