________________
काव्यमाला ।
जातं रणरणोपेतं सांराविणमितस्ततः ।
प्रभञ्जनोद्यतं तस्य मदाघातकरं महत् ॥ १६ ॥ जातमिति ॥ रणरणोपेतं शस्त्रध्वनिसंयुक्तं प्रभञ्जनोद्यतं विध्वंसनोपेतं मदाघातकरं मद्विनाशकरं, महत् गरिष्ठं तस्य वालिनः, सांराविणं समन्ततो ध्वनितम्, इतस्ततः सर्वतः, जातम् ॥ भारतीये-तस्य ग्रीष्मस्य, रणरणोपेतम् शब्दानुगतशब्दोपेतं प्रभञ्जनोयतं म. हावातकृतं मदाघातकरमध्मातिशयेन हर्षविनाशकरम् ॥
मज्जनेषु मनो गूढं विपरीतजलात्मसु ।
प्रकृत्या यः पुरस्तेषां समापातयदङ्गिनाम् ॥ १७ ॥ मजनेष्विति ॥ तेषाम् अङ्गिनां प्राणिनां पुरः अग्रेसरः, यः सुग्रीवविटः, प्रकृत्या स्वभावेन विपरीतजलात्मसु धर्म्यपथविरुद्धजडात्मसु, मजनेषु मदयन्ति । 'मदी हर्षग्लेपन. योः । तेषु जनेषु, गूढं मनः समापातयत् समासक्तवान् ॥ भारतीये-प्रकृत्या पुरः पुलो महान् यो ग्रीष्मस्तेषां प्राणिनां मनो गूढं निबिडं यथा स्यात्तथा, विपरीतजलात्मसु पक्षिव्याप्तवारिपूर्णेषु, मजनेषु वाप्यादिनानस्थानेषु ॥
उच्चैरंहाः प्रतापेन कालः साक्षाद्भयानकः ।
तथामेयं पुरं देशं विश्वं विषमयोजयत् ॥ १८ ॥ उच्चैरिति ॥ उच्चैरंहा विपुलवेगः, साक्षात् काल इव भयानकः प्रतापेन विषमयो गरलमयो यः विश्वमशेषम् अमेयं पुरं नगरं देशं विषयम् अजयत् ॥ भारतीये-तीव्रवेगः, प्रतापेन अत्यूष्मणा भयानकः कालो ग्रीष्मः अमेयं गणनातीतम् पुरं देशं विश्वं लोकं कर्म 'विषं जलम् जलाय अयोजयत् प्रेरयामास ॥
उत्तुङ्गश्यामलकुचा तेन रम्या प्रियालकैः ।
वनाधिदेवतालक्ष्मीः सर्वेषां पश्यतां हृता ॥ १९ ॥ उत्तुङ्गेति ॥ तेन वालिना उत्तुङ्गश्यामलकुचा पीनकृष्णस्तनी, अलकैः कुटिलकेशै रम्या, वनाधिदेवता आलयाधिदेवतारूपा प्रिया भार्या लक्ष्मीः सर्वेषां भूचरखेचराणां पश्यतां सतां हृता ॥ भारतीये-तेन ग्रीष्मेण उत्तुङ्गश्यामलकुचा अत्युच्चकृष्णलकुचवृ. क्षवती, प्रियालकै राजादनै रम्या मनोहरा वनाधिदेवतालक्ष्मीवनस्याधिदेवतैव लक्ष्मीर्हता ॥
चन्दनस्यन्दसान्द्राङ्गी मल्लिकामालभारिणी ।
तारेन्दुवदना बाला सापि तेनोपतापिता ॥ २० ॥ चन्दनेति ॥ तेन साहसगतिना, चन्दनस्यन्दसान्द्राङ्गी श्रीखण्डलेपलिप्ताङ्गी, मल्लिकामाल्यधारिणी मल्लिकाया मालां बिभर्ति तच्छीला, इन्दुवदना चन्द्रानना बाला मुग्धा अपि सा तारा उपतापिता ॥ भारतीये-चन्दनस्यन्दसान्द्राङ्गी चन्दनस्यन्दवत्कोमला, माल्यभारिणी पुष्पभारवती तारेन्दुवदना शारदचन्द्रोज्वला बाला नूनपरोपिता सा मल्लिकापि ॥