SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ९ सर्गः] द्विसंधानम् । १०१ साकृतोच्छ्रसितावश्यं महिषी सकलाकुला । सुशृङ्गारार्यतापाङ्गविभ्रमात्तं जलाशयम् ॥ २१ ॥ साकृतेति ॥ हे आर्य, उच्छृसिता प्राणभूता, सकला कलायुता, आकुला व्यग्रा, सुशङ्गारा प्रशस्तभूषणा, सा लोकप्रसिद्धा, महिषी साहसगतेर्वालिनः पट्टराज्ञी ताराभिधाना, जडाशयं मूढाशयम्, तं साहसगतिं वालिनम्, तापाङ्गविभ्रमात् तापाङ्गस्य विशेषेण भ्रमणात्, वश्यं वशवर्तिनम् अकृत चकार ॥ भारतीये-कृतोच्छसिता विहितोच्छ्सना सकला समस्ता, आकुला धर्माधिक्येन व्यग्रा, सुशृङ्गा सा महिषी सैरिभपत्नी अपाङ्गविभ्रमात्तं कटाक्षविक्षेपक्रोडीकृतं यथा स्यात्तथा जलाशयं सरोवरम्, अवश्यम् आरायत कु. टिलं गतवती ॥ श्लेषः ॥ सैकतेषु प्रियोपेता न तत्संचारभीरवः ।। संचरन्ति स्मराजीषुनिबद्धा राजहंसकाः ॥ २२ ॥ सैकेति ॥ तत्संचारभीरवः तस्य साहसगतेः संचारागीरवः, राजहंसकाः क्षत्रियसमूहाः, स्मराजीषुनिबद्धाः कंदर्पसङ्ग्रामशरनियन्त्रिता अपि प्रियोपेता भार्यायुताः सन्तः सैकतेषु न संचरन्ति ॥ भारतीये-तत्संचारो ग्रीष्मसंचारः, राजीषु श्रेणिषु निबद्धा नियमितगात्राः राजहंसका मुक्ताहारपरिच्छदपक्षिसमूहाः न संचरन्ति स्म ॥ श्लेषः ॥ लोको वितपमानेन तप्तस्तेन गृहं गृहम् । अनुप्रवेशं निभृतमध्यास्तेहितकाम्यया ॥ २३ ॥ लोक इति ॥ वितपमानेन दीप्यमानेन तेन साहसगतिना तप्तः क्लेशितो लोको गृह गृहं अनुप्रवेशं प्रविश्य ईहितकाम्यया मनोवाञ्छया निभृतं निश्चलम् अध्यास्त ॥ भार• तीये-तेन ग्रीष्मेण, हितकाम्यया सुरताभिलाषेण, अध्यास्ते ॥ श्लेषः ॥ मातरिश्वैकवृत्तेऽस्मिन्कालान्तरवितापिनि । तप्तं नाथहरिंकुलं निलीनं वृक्षकुक्षिषु ॥ २४ ॥ मातरिश्वेति ॥ हे नाथ, मातरि जनन्यां श्वैकवृत्ते शुन इव एकं वृत्तं यस्य तादृशि, कालान्तरवितापिनि समयान्तरप्रतपनशीले, अस्मिन् साहसगतौ सति, तप्तं दुःखितं हरिकुलं वानरकुलं वृक्षकुक्षिषु निलीनम् ॥ भारतीये--मातरिश्वकवृत्ते वायौ एकं वृत्तं जीवनं यत्र तत्र, कालान्तरवितापिनि प्रलयतुल्यसूर्यतापयुते, अस्मिन्प्रीष्मे, नाथहरिकुलं वृषसमूहः वृक्षच्छायायाम् ॥ श्लेषः ॥ परोत्तापनशीलस्य पांसुलस्य चितौजसः । दुर्वृत्तं दुःसहं तस्य दुर्जनस्येव लक्षितम् ॥ २५ ॥ परोत्तापेति ॥ परोत्तापनशीलस्य परपीडनशीलस्य, पांसुलस्य पुंश्चलस्य सदोषस्य धू. लिमतश्च, चितौजसः दुष्टपराक्रमस्य दुष्टतेजसश्च ॥
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy