SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ १०२ काव्यमाला। गृहवापीषु सोपानपतयस्तस्य तापतः । पानीयपथसंचारैर्विमुक्ताः प्रतिवासरम् ॥ २६ ॥ गृहेति ॥ तस्य साहसगतेः, तापत उपद्रवात्, पानीयपथसंचारैः जलनालिकासदृशसं. चारैः सततनिर्गमप्रवेशैः गृहवापीषु गृहेष्वेव वापीषु, सोपानपतयः प्रतिवासरं विमुक्ता जायन्ते ॥ भारतीये-तस्य ग्रीष्मस्य, पानीयपथसंचारैः कल्लोलैः, गृहवापीषु गृहतुल्यदीर्घिकासु ॥ श्लेषः ॥ विहाय स्वानि सद्मानि तत्प्रचारविशङ्कया। दिनं गमितवन्तोऽन्ये वनदुर्गेषु निद्रया ॥ २७ ॥ विहायेति ॥ तस्य साहसगतेीष्मस्य च । वनं विपिनं जलं च । साहसगतेयं ग्रीष्मस्य स्वरूपं वर्णितम् ॥ संतापवद्दिनं जातं निशा क्रशिमयोजिनी । अहो प्रतापो यत्तस्य बाधानिष्ठं दिवानिशम् ॥ २८ ॥ संतापेति ॥ संतापवत् संतापयुक्तं तापयुक्तं च, शिमयोजिनी कृशतां योजयति कृ. शतया युज्यते च या, बाधानिष्ठं पीडाजनकम् ॥ उद्दीपितोऽर्यमायाभिर्निजप्रकृतिभिर्जनम् । अतापयदसावेवं तीव्राणां हीदृशी गतिः ॥ २९ ॥ उद्दीपित इति ॥ हे अर्य, निजप्रकृतिभिरुद्दीपित उग्रः, असौ साहसगतिर्मायाभिर्जनमेवम् अतापयत् । तीव्राणां गतिरीदृशी भवति ॥ भारतीये-याभिर्निजप्रकृतिभिः, अर्थमा सूर्य उद्दीपितः, ताभिरेव असौ ग्रीष्मः ॥ श्लेषः ॥ तथावस्थं तमालोक्य तथा च क्रीडनोचितम् । रिपुमुद्बाधितुं पापच्छिद्रामोघधियोद्यतः ॥ ३० ॥ तथेति ॥ पापच्छिद् पापहारको रामस्तथावस्थं तं सुग्रीवम् आलोक्य तथा तथावस्थम् क्रीडनोचितं जनोपद्रवेण खेलनयोग्यम्, रिपुं साहसगतिम् उद्बाधितुम्, व्यापादयितुम् अपधिया पापबुद्ध्या उद्यतः ॥ चक्री जरासंधः, तं शुचिसमयम्, आलोक्य, ईडनोचितं स्तुतियोग्य, रिपुं नारायणं पापच्छिद्रामोघधिया पापद्वारेष्वप्रतिहतबुद्ध्या ॥ श्लेषः ॥ पश्यन्निव पुरः शत्रुमुत्पतन्निव खं मुहुः । निगिलन्निव दिक्चक्रमुद्गिलन्निव पावकम् ॥ ३१ ॥ संहरन्निव भूतानि कृतान्तो विहरन्निव । ग्रीष्माम्यर्कपदार्थेषु चतुर्थ इव कश्चन ॥ ३२ ॥
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy