________________
९ सर्गः]
द्विसंधानम् ।
.
१०३
प्रमत्तानेकपालोलमुच्चैरथनिरन्तरम् । प्रचण्डतरसामन्तं द्विषो दण्डमयोजयत् ॥ ३३ ॥
(त्रिभिः कुलकम्) पश्यनित्यादि ॥ अथ पुरोऽग्रतः, शत्रु पश्यन्निव, खं गगनं मुहुरुत्पतनिव, दिक्चक्रं निगिलनिव, पावकमुद्लिनिव, भूतानि संहरन् इव, विहरन् क्रीडन् कृतान्त इव, ग्रीष्माम्यर्कपदार्थेषु कश्चन चतुर्थ इव, उच्चैरत्यर्थे प्रमत्तानेकपाल: प्रकृष्टाभिमानाननेकान् पालयति, स रामः प्रचण्डतरसा प्रकृष्टवेगेन अलमत्यर्थम् अमन्तं रोगवन्तं दण्डं दण्डनीतिं द्विषः शत्रोः निरन्तरं सातत्येन अयोजयत् । यद्वा दण्डमयः प्रमत्तानेकपालः प्रमत्तान्प्रमादिनो जनान् अपायात्पालयति स रामः प्रचण्डतरसाम् तीव्रवेगानाम् अन्तं नाशकरं यथा स्यात्तथा द्विषः शत्रून् अजयत् ॥ भारतीये-प्रमत्तानेकपालोलं प्रमत्तः प्रक्षीबैरनेकपैर्गजैरालोलं चञ्चलम्, प्रचण्डतरसामन्तं प्रचण्डतराः सामन्ता यत्र तादृशम्, उच्चैरथनिरन्तरम् उच्चैर्महान्तोरथा निरन्तरा यत्र तादृशम्, दण्डं सैन्यम् द्विषः शत्रुमुद्दिश्य अयोजयत् ॥श्लेषः॥
अधिष्ठितोऽस्त्रविद्याभिर्वीरश्रीलक्ष्मणान्वितः ।
विजजृम्भे तमुद्देशं विक्षेपो व्याप्य विद्विषः ॥ ३४ ॥ अधिष्ठित इति ॥ अस्त्रविद्याभिः यन्त्रमुक्त-पाणिमुक्त-पाणियुक्तेति त्रिविधैरस्त्रैः वि. द्याभिः शास्त्रैश्च अधिष्ठितः समाश्रितः, वीरश्रीलक्ष्मणान्वितः जयलक्ष्म्युपलक्षितलक्ष्मणेनान्वितः, विक्षेपः परित्यक्तकालयापन:, रामः, तं साहसगतिम् उद्देशम् उद्दिश्य, विद्विषः शत्रून् व्याप्य विजजम्भे प्रज्वलति स्म ॥ भारतीये-वीरश्रीलक्ष्मणा जयलक्ष्मीचिह्नेनान्वितः, तं नारायणम् ॥ श्लेषः ॥
वज्रावतै धनुर्मित्रमिवाकृष्य निपीडितम् ।
तं नातिसंदधे को वा नम्रात्मा व्यभिचारकः ॥ ३५ ॥ वज्रेति ॥ आकृष्य निपीडितम्, वज्रावर्त तन्नाम धनु: 'मित्रमिव' तं रामं न अतिसंदधे वश्चयति स्म । नम्रात्मा व्यभिचारको व्यभिचारी कः । कोऽपि न ॥ भारतीयेवज्रावर्त वज्रस्येवावर्तो यस्य तं दण्डं सैन्यम् ॥
समासवदसौ लोपं दाहं मदनबाणवत् ।
विध्वंसघटनां राहुरिव कर्तुं समुद्यतः ॥ ३६ ॥ समासेति ॥ असौ रामो दण्डश्च, समासवत् लोपम्, मदनबाणवत् कंदर्पशरवत् दाहम्, राहुरिव विध्वंसघटनां चन्द्रार्कग्रासं विनाशयोजनां च, कर्तुं समुद्यतः ॥ श्लेषः ।
अस्त्राणि यन्त्रमुक्तानि तस्मिन्देशे समन्ततः ।
निर्धाता इव निष्पेतु?रसंहारहेतवः ॥ ३७ ॥ अस्त्राणीति ॥ तस्मिन्देशे किष्किन्धाख्ये, सौराष्ट्राख्ये च ॥