________________
काव्यमाला।
कलत्रपुत्रमित्राणि गृहीत्वा तत्र ते जनाः ।
यथायथं पलायन्ते भाविभद्रं हि जीवितम् ॥ ३८ ॥ कलत्रेति ॥ तत्र किष्किन्धायां सौराष्ट्रे च ॥ अर्थान्तरन्यासः ॥
ततो बलेन बाल्येऽपि सहजेन कृतायतिः । सर्वार्जुनमयोदात्तनायकाभरणान्वितः ॥ ३९ ॥ परदारग्रहाविष्टः स्पष्टमायोजितायुधः । दिव्यान्वयोऽत्र सुग्रीवरूपः कोपारुणेक्षणः ॥ ४० ॥ कृत्वोच्चैरथवेगेन केशवस्त्रातिसंयतिम् । निर्ययौ साहसगतिः सभीमः संयुगं प्रति ॥ ४१ ॥
(त्रिभिः कुलकम्) तत इत्यादि ॥ अथानन्तरं ततस्तनगराद्, बाल्येऽपि सहजेन अकृत्रिमेण बलेन प. राक्रमेण कृतायतिर्विहितप्रसिद्धिः, सर्वार्जुनमयोदात्तनायकाभरणान्वितः सर्वैः समस्तैरर्जुनमयैः सुवर्णविकारभूतैरुदात्तनायकैर्दीयुत्कटैराभरणैरन्वितः, परदाराग्रहाविष्टः परकीयदारेष्वाग्रहेणाविष्टः, स्पष्टमायो व्यक्तकौटिल्यः, जितायुधोऽभ्यस्तशस्त्रः, दिव्यान्वयो दिव्यानां देवानां संततिः, सुग्रीवरूपः सुग्रीवतुल्यरूपधारी, कोपारुणेक्षणः क्रोधलोहितलोचनः, भीमो भयानकः स लोकप्रसिद्धः साहसगतिर्वा लिनामा, उच्चैरत्यर्थे, केशवस्त्रातिसंयतिं केशानां चिहुराणां वस्त्राणां वाससां च अतिसंयतिम् अतिशयेन बन्धनं कृत्वा वेगेन संयुगं प्रति निर्ययौ ॥ भारतीये-ततो द्वारकायाः, कृतायतिर्विहितोत्तरकालफलः, सर्वार्जुनमयोदात्तनायकाभरणान्वितः सर्वैरर्जुनमयैर्धनंजयहेतुकैरुदात्तनायकैरुग्रस्वामिभिरेव आभरणैरन्वितः, परदाराग्रहाविष्टः परेषां शत्रणां दारे विदारणे आग्रहाविष्टः, स्पष्टम् आयोजितायुधः आत्मसात्कृतायुधः, दिव्यान्वयो मनोहरवंशः, सुग्रीवरूपः शोभनग्रीवायुतरूपः, साहसगतिः आ ईषत् हसेन हासेन सहिता गतिर्यस्य स्मितपूर्वगामी, सभीमः भीमेन वृकोदरेण सहितः, केशवः त्रातिसंयतिं सन्नाहबन्धनं कृत्वा उच्चैरथवेगेन उच्चैः स्यन्दनरंहसा सहजेन बन्धुना बलेन बलभद्रेण सह ॥ श्लेषः ॥
निषेकदिवसः कच्चिदुपालिङ्गन्नु किंचन ।
प्राणिनामपमृत्युः स्विदिति लोकं विशङ्कयन् ॥ ४२ ॥ • आलीढपदविन्यासमध्यमध्युषितं जगत् ।
अमंस्तोपनतं विश्वं सहसाकृष्टकार्मुकः ॥ ४३ ॥ (युग्मम्) निषेकेति ॥ नु अहो, कच्चित् कोमलामन्त्रणे प्राणिनां निषेकदिवसो मरणदिनं किंचन उपालिङ्गन्, स्वित् प्राणिनामपमृत्युः इति एवंप्रकारेण लोकं विशङ्कयन् विशेषेण शङ्कां