SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ९ सर्गः ] द्विसंधानम् । १०५ जनयन्, सहसा आकृष्टकार्मुकः साहसगतिः केशवो भीमो वा विश्व जगत् उपनतमानुषङ्गिकम्, आलीढपदविन्यासमध्यम् आलीढेन दक्षिणजङ्घाप्रसारणपूर्वकवामजङ्घासंकोचरूपस्थानकविशेषेण पदविन्यासयोर्मध्यम् अध्युषितम् अमंस्त ॥ ऋजूपकारि निर्व्याजं कृच्छ्रेष्वव्यभिचारिणम् । स मित्रमिव निर्दोषं दूरं चिक्षेप मार्गणम् ॥ ४४ ॥ ऋज्विति ॥ स साहसगतिः केशवश्च ऋजूपकारि निर्व्याजं ऋजुं सरलं उपकारिणम् निश्छद्मानम् (कर्मधारयः), कृच्छ्रेषु व्यसनेषु अव्यभिचारिणमवञ्चकम्, निर्दोषं किमलरहितं मार्गणं बाणं [मित्रमिव] दूरं चिक्षेप ॥ मित्रं तु ऋजु, उपकारि, निर्व्याजं निष्कपटं, निर्दोषं निष्पापं, दूरं (स्वकार्यसाधना ) ॥ कोटिशः कुंजरबलं शरपञ्जरमध्यगम् । रामभद्रं जनोऽद्यापि वनस्थितमिवैक्षत ॥ ४९ ॥ कोटिश इति ॥ कोटिशः कोटिकोटिसंख्या परिमितो लोको जनः कुंजरबलं कुंजराणामित्र बलं यस्य, रामभद्रं राघवं शरपञ्जरमध्यगं बाणश्रेणीमध्यगतम् अद्यापि वनस्थितमित्र ऐक्षत ॥ वनस्थितं तु, कुंजरबलं कुंजेषु रवं प्रतिध्वनिं लाति तम्, शरपञ्जरमध्यगं जलस्थानमध्यस्थितम् ॥ भारतीये - रामभद्रं रामं मनोज्ञं सर्वलक्षणसंपूर्णम्, कोटिशः कुं जरबलं नागानां सैन्यम् ॥ दष्टदन्तच्छदं बद्धभ्रूभङ्गं मुक्तहुंकृति । ग्रहाविष्टमिवानिष्टं घोरं युद्धमिहाभवत् ॥ ४६ ॥ दष्टेति ॥ दष्टदन्तच्छदमित्यादीनि त्रीणि युद्धमित्यस्य क्रियाया वा विशेषणानि ॥ अपसत्रे जनैरुस्राः सस्रेरन्तर्हिताः शरैः । मुक्तकेशा इवाभूवन्दिग्दारा धूमकेतुभिः ॥ ४७ ॥ अपसेति ॥ जनैःअपसस्रे अपसृतम्, शरैः सः सूर्यस्य उस्राः किरणा: अन्तर्हिताः, दिग्दारा दिगङ्गना: धूमकेतुभिः मुक्तकेशा इव अभूवन् ॥ नष्टं भीतैः स्थितं धीरैः स्पष्टं दृष्टं सुरासुरैः । भीमेन बलरामेण गर्जितं सव्यसाचिना ॥ ४८ ॥ नष्टमिति ॥ भीतैर्नष्टमदृष्टिपथं गतम्, धीरैः स्थितम्, सुरासुरैः स्पष्टं यथा स्यात्तथा दृष्टम्, भीमेन भयानकेन, सव्यसाचिना सव्यं वामं सचते प्रणतीक्रियते इत्येवंशीलेन वामप्रदेशप्रणताङ्गविन्यासेन, बलरामेण बलिना रामेण गर्जितम् ॥ भारतीये - भीमेन को - दरेण, बलरामेण बलभद्रेण, सव्यसाचिना अर्जुनेन ॥ १४
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy