SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ काव्यमाला | सदुरामकोदण्डो मायावी विद्रुतो हतः । नरघोराहवे जातः कुले शूरोऽपि को जयेत् ॥ ४९ ॥ स दुरेति ॥ दुरानमकोदण्डो दुःखेनानमनशीलः कोदण्डो यस्य स मायावी स साहसगतिविद्रुतः पलायितः सन् आहवे संख्ये हतः । रघो राज्ञः कुले जातः कः शूरः न जयेदपि तु जयदेव || भारतीये - दुरानमको दुःखेन जेतुमशक्यः । दण्डः सैन्यं इतः सन् विद्रुतः । नरघोराहवे नरस्यार्जुनस्य घोराहवे कुले जातः शूरोऽपि को जयेत् । अपि तु न ॥ केशवो बलदेवश्च न पौरैरेव केवलम् । १०६ प्रत्युद्यातस्तथा तेषां रोमाञ्चैः संचितैरपि ॥ ५० ॥ केशव इति ॥ केशवो लक्ष्मणो नारायणश्च, बलदेवो रामो बलभद्रश्च तेषां पौराणाम संचितैः पुष्टिं गतैः ॥ चलत्पताकामुद्धद्धतोरणां तामविक्षताम् । द्वारकां गोपुरद्वारैः किष्किन्धनगरीमिव ॥ ११ ॥ चलदिति ॥ द्वारकाम् इव ॥ भारतीये - किष्किन्धनगरीम् इव ॥ सुग्रीवः सपदि पराक्रमेण कन्यां वैकुण्ठः परिहृषितः शुभां सुभद्राम् । कल्याणीं स बहुमतो जितारयेsस्मै दित्सन्नक्रमत तथा धनंजयाय ॥ ९२ ॥ इति धनंजयकविविरचिते धनंजयाङ्के राघवपाण्डवीयापरनानि द्विसंधानकाव्ये मायासुग्रीवनिग्रहजरासंध बलविद्रावणं नाम नवमः सर्गः समाप्तः ॥ सुग्रीव इति ॥ पराक्रमेण प्रतापेन कुण्ठो मन्दः, परिहृषितः परिहृष्टः, बहुमतः बहूनां नलनीलजाम्बवादीनां मतः स सुग्रीवः, जितारये जितोऽरिर्येन तादृशे, अस्मै रामाय जयाय जयनिमित्तं शुभां शुभलक्षणाम्, सुभद्रां शोभनानि भद्राणि कल्याणानि, यस्यास्तादृ शम्, कल्याणीं तन्नामानं कय तथा धनं दित्सन् अक्रमत प्रवर्तते स्म ॥ भारतीये - सुग्रीवः शोभनग्रीवः, वैकुण्ठो नारायणः, धनंजयाय अर्जुनाय, सुभद्रां तदाख्याम् ॥ प्रह र्षिणीवृत्तम् ॥ इति श्रीदाधीच जातिकुद्दालोपनामकश्रीच्छो टीलालात्मजश्रीबदरीनाथाविरचितायां द्विसं धानकाव्यटीकायां मायासुग्रीवनिग्रहजरासंघबलविद्रावणं नाम नवमः सर्गः ॥ दशमः सर्गः । अन्यदा रसमिवैक्षवं वचश्चित्तहारि हरिवंशनायकम् । दण्डगर्भमपि भोगलोलुपं कोप्युपेत्य पुरुषोत्तमोऽवदत् ॥ १ ॥ अन्यदेति ॥ कोपी कोपनशीलः, पुरुषोत्तमो लक्ष्मणः तन्नामा दूतश्च, भोगलोलुपं वि• षयसुख लम्पटम्, हरिवंशनायकं सुग्रीवं नारायणं च, उपेत्य समीपमेत्य, ऐक्षवमिक्षुविका
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy