________________
१० सर्गः ]
द्विसंधानम् ।
१०७
रसमिव दण्डगर्भे दण्डप्रधानं दण्डान्तःस्थमपि चित्तहारि हृदयंगमं वचो वाक्यम् अन्यदा अन्यस्मिन्काले अवदत् ॥ सर्गेऽस्मिन्रयोद्धता स्वागता च वृत्तम् ॥
श्रीमतां श्रुतवतां कुलजानां त्वय्युपस्कृतमिदं नतु दृष्टम् । सत्यमुन्नतिमतां हि गुरूणां मेरुरेव विकृतो न कदाचित् ॥ २ ॥ श्रीमतामिति ॥ धनवतां ज्ञानिनां शुद्धान्वयानां मध्ये त्वयि इदं प्रत्यक्षगोचरम्, उपस्कृतं वैकृतं सत्यं न दृष्टम् । हि यतः उन्नतिमतां तुङ्गानां गुरूणां मध्ये मेरुरेव कदापि न विकृतः ॥
,
यौवनं तव न वैकृतं गतं मन्मथोऽपि समभावमास्थितः । त्वं परं युवजरन्गुणानिमान्नापवादपदवीमजीगमः ॥ ३ ॥ यौवनमिति ॥ हे युवजरन्, तव यौवनं वैकृतं न गतम्, मन्मथः कंदर्पोऽपि समभावम् आस्थितः । परं केवलं त्वम् इमान् गुणान् अपवादपदवीं न अजीगमः ॥ सद्गुणास्तव नृपैः सुगृहीतास्ते तथापि न भवन्ति भवद्वत् ।
तोयदाः ः खलु जलं जलधीनां बिभ्रतोऽपि न तथापि गभीराः ॥ ४ ॥
सद्गुणा इति ॥ नृपैः यद्यपि तव सद्गुणाः सुग्रहीताः, तथापि ते राजानः, भवद्वत् न भवन्ति । जलधीनां जलं विभ्रतोऽपि तोयदा गभीरा न स्युः ॥
त्वं हिमाद्रिरपि तां सरस्वतीं त्वं रविश्व कमलाकरग्रहम् । त्वं विधुश्च भुवनाभिनन्दथुं धत्थ इत्थमपरो न कश्चन ॥ ५ ॥ त्वमिति ॥ सरस्वतीं वाणीं नदीं च, कमलाकरग्रहं लक्ष्मीहस्तग्रहणं पद्माकरशोषणं च, वनाभिनन्दथुं लोकाभिनन्दनम् ॥
आश्रयस्त्वमसि सर्वलघूनां सेविता भवसि सर्वगुरूणाम् । छन्दसस्तव च वृत्तिमुदारां वर्णयन्ति कवयश्चरितेषु ॥ ६ ॥
आश्रय इति ॥ लघवः सरलाकृतय ऐकमात्रकाः निराश्रयदीन दुःस्थितभाग्यदूरवर्तिनश्च, गुरवो वक्राकृतयो द्विमात्रका सकलशास्त्रोपदेष्टारश्च चरितेषु प्रस्तारोचितवार्तासु चरित्रेषु च ॥
,
दुर्जनेऽप्यनुनयः स्वभावतः सज्जने तु विनयो विशेषतः । तत्त्वमेवमभिमानिनं मम स्वामिनं किमिति नानुवर्तसे ॥ ७ ॥
दुर्जनेऽपीति ॥ अनुनयः प्रीतिः, विनयः प्रश्रयः । तत् तस्मात् एवं वक्ष्यमाणप्रकारेण अभिमानिनं मम स्वामिनं रामं नारायणं च किमिति कुतो नानुवर्तसे ॥
तादृशं प्रशमितं ननु वैरं तेन ते कृतमिदं न लघीयः । कंसमाहतमरिं भुवि वित्तं नेह संस्मरसि स स्मरणीयः ॥ ८ ॥