SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ १०८ काव्यमाला | तादृशमिति ॥ ननु अहो तेन रामेण ते सुग्रीवस्य तादृशं ताराहरणप्रायम् वैरं प्रशमि - तम् । इदं लघीयो लघुतरं न कृतम्। त्वं भुवि वित्तं विख्यातं कमनिर्वचनीयं समाहतं व्यापादितम् अरिं साहसगतिं न संस्मरसि । स शत्रुः स्मरणीयो भवता । एतेन ' न स संकुचितः पन्था येन वाली हतो गतः । समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः ॥ इति स्वाम्याज्ञा प्रश्राविता | भारतीये - तेन कंसेन ते नारायणस्य तत् इदं वैरं प्रशमि लघीयो न कृतम् । तादृशमजय्यम् आहतं व्यापादितं कंसम् अरिम् || श्रीवधूहरणवैरबन्धतः संप्रति भ्रुकुटिभङ्गराननः । मा रुषन्मम पतिः समेत्य तं पादयोः पत समाहिताञ्जलिः ॥ ९ ॥ श्रविध्विति ॥ संप्रति श्रीवधूहरणवैरबन्धतो जानकीहरणवैरानुबन्धात् भ्रुकुटिभङ्गुराननः मम पती रामः मा रुषत् रुष्टो मा भूत् । अत: कारणात् समाहिताञ्जलिः कुड्मली - कृतकरः सन् त्वं तं रामं समेत्य पादयोः पत | भारतीये - श्रीवधूहरणवैरबन्धतः लक्ष्मीरेव वधूः । मम पतिः जरासंधः । तं जरासंधम् ॥ अग्रतो भव शुभे पथि तिष्ठ प्रश्रयं भज जहीहि निजौजः । स्वामिनः श्रुतिपथातिथिभावं प्रापय प्रियजनैः प्रियवार्ताम् ॥ १० ॥ अग्रतविति ॥ स्वामिनो रामस्य जरासंधस्य च, प्रियजनैः सविश्रम्भजनैः ॥ वाचमेवमुपकर्ण्य कर्णयोः कर्कशामकृशयोः कशोपमाम् । क्षोभमब्धय इवाययुस्तया वात्यया सदसि वानराधिपाः ॥ ११ ॥ वाचमिति ॥ वानराधिपाः सुग्रीवप्रभृतयः शाखामृगस्वामिनः एवम् उक्तप्रकारेण अकृशयोन्यय्यात्मविषयग्रहणप्रवीणयोः कर्णयोः श्रोत्रयोः कर्कशां कठोरां कशोपमामश्वादिताडनरज्जूपमाम्, वाचम् उपकर्ण्य तया वार्तया 'वात्यया अब्धय इव सदस सभायां क्षोभम् आययुः ॥ भारतीये – नराधिपा बलभद्रादयो नरेन्द्रा अर्जुनस्वामिका वा ॥ श्रीदशार्हकुलजाः किल केचिन्मानिनः स्थितिविघातभयेन । क्रोधवह्निशिखया स्वयमन्तर्दाहदून हृदयाः क्लममायुः ॥ १२ ॥ , श्रीदेति ॥ किल अरुचौ लोकोक्तौ वा, श्रीदशार्हकुलजा श्रीदशां भाग्यावस्थाम् अतिते कुलजा नलनीलादयः, श्रियोपलक्षितानां 'समुद्रविजय - अक्षोभ - तिमिरसागर - हिमवद् - विजय- अचल-आरण - पूरण - अभिचन्द्र - वसुदेव' - इति दशार्हाणां कुले जाताश्च ॥ भोजकाः सुखनिबद्धसंपदः स्वेदसेकनिचिताङ्गयष्टयः । केऽपि कोपशिखिशान्तये बभुर्मुक्तवारिकलशा इवोपरि ॥ १३ ॥ भोजेति ॥ सुखनिबद्धसंपदः सुखसंयुक्तविभूतेः, भोजका भोक्तारः ॥ भारतीये – सुख निबद्धसंपदः सुखाय संभृता संपद्यैस्ते, भोजका भोजकुलोत्पन्न यादवाः ||
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy