SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ १० सर्गः ] द्विसंधानम् । आशुशुक्षणिरिवाशु स कश्चिद्भूपतिः प्रबलयादवजन्मा । प्रज्वलन्कपिशतान्वितकायः सह्यते स्म परुषो न रुषान्यैः ॥ १४ ॥ आश्विति ॥ प्रबलया रुषा परुषो निष्ठुरः कपिशतान्वितकायः कपीनां शतै रचितः कायो यस्य स भूपतिः 'दवजन्मा अरण्योद्भव आशुशुक्षणिर्वह्निरिव ज्वलन् अन्यैः न सह्यते स्म ॥ भारतीये - कपिशतान्वितकायः कपिशतया पिङ्गलवर्णेनान्वितः कायो यस्य सः, प्रबलयादवजन्मा प्रबलश्चासौ यादवजन्मा च ॥ १०९ केsपि वृष्णिकुलजाः समागताः साम्यमम्बुधिगभीरचेतसः । आसनानि न बभञ्जुरूर्जिताः क्वापि किं भुवि चलन्त्यभीरवः ॥ १९ ॥ केऽपीति ॥ कुलजाः कुलीनाः वृष्णि इन्द्रे साम्यं समागताः, अम्बुधिगभीरचेतसो जलधिरिव गभीरं चेतो येषां ते ॥ भारतीये - अम्बुधिगभीरचेतसः सत्पुरुषस्य, साम्यं समागताः, वृष्णिकुलजा वृष्णेर्यादवविशेषस्य कुले जाताः ॥ स्विन्नवान्स हरिचन्दनदेहः कम्पवाँश्चटुलपाटलदृष्टिः । क्षोभमात्मनि नियन्तुमशक्तः कामकातर इवाजनि भीमः ॥ १६ ॥ स्विन्नेति ॥ हरिचन्दनदेहो हरिचन्दनस्य वानरस्य देहः, हरेर्नारायणस्य चन्दनलिप्तो देहो वा, हरिचन्दनेन लिप्तो देहो यस्य स वा, भीमो भयानको वृकोदरो वा ॥ अस्त्यशक्यमपि दूरमर्जुनः कार्यमित्युपरि धूनयञ्शिरः । गौरवेण गुरु गन्धमादनः सामजस्य निजसौष्टवं ययौ ॥ १७ ॥ अस्त्येति ॥ गन्धमादनस्तन्नामा वानर : 'हे दूरम दुःखेन रम्यते यः, दुःखिता रमा जानकी यस्य स वा, नोऽस्माकम्, ऋजु प्राञ्जलमपि कार्य किमशक्यमस्ति' इति उपरि गुरु शिरो धूनयन् सन् सामजस्य गजस्य गौरवेण निजसौष्टवं स्वकीयप्रौढिमानं ययौ ॥ भारतीये—गौरवेण गन्धमादनस्तत्तुल्यः अर्जुनः पार्थः किं दूरमपि कार्यमशक्यमस्ति ॥ योनलोभरमितः कदनेषु स्थेमवृत्तिरवहद्भुवि कीर्तिम् । पाण्डुमद्युचितमुन्नतिभावं सोऽवलम्ब्य नकुलप्रभुरस्थात् ॥ १८ ॥ योनेति ॥ यः स्थेमवृत्तिः स्थिरतरवृत्तिः सन् कदनेषु भरं तत्परतामितो गतः सन् भुवि कौ पाण्डु शुभ्र कीर्तिमवहत् । स कुलप्रभुर्वेशपतिः कुं लान्ति आददते तेषां कुलानां राज्ञां प्रभुर्वा, स नलस्तन्नामा कीशोऽद्रयुचितं पर्वतोचितमुन्नतिभावमुन्नतत्वमवलम्ब्य (किम् ) न अस्थात् अस्थादेव || भारतीये यः कदनेष्वनलो जातवेदाः सन् भरमितः । स नकुलप्रभुः चतुर्थपाण्डवः पाण्डुमद्रयुचितं पाण्डोर्मद्याश्वोचितम् ॥ तं विलोक्य सहदेवविक्रमं विभ्रतं कुमुदमायतायतिम् । जुम्भमाणमभिमानसंश्रयं तत्र तत्रसुरितस्ततो जनाः ॥ १९ ॥
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy