________________
११०
काव्यमाला । तमिति ॥ देवविक्रमं सुरप्रतापं सह विभ्रतं धरन्तमायतायति विस्तीर्णकीर्तिमभिमानसंश्रयं गर्वमन्दिरं जम्भमाणं प्रवर्तमानं कुमुदं वानरं विलोक्य जना इतस्ततस्तत्रसुः ॥ भारतीये-आयतायतिं दीर्घोत्तरफलां कुमुदं पृथ्वीहर्ष बिभ्रतं सहदेवविक्रमं पश्चमपाण्डवबलम् ॥
तं समुद्रविजयं प्रतापतः शूरतैकपरमञ्जनोद्भवम् ।
सुप्रतिष्ठितमवेक्ष्य लजितः सोऽखिलोऽभवदुपप्लुतो नृपः ॥ २० ॥ __ त सेति ॥ लजितः सोऽखिलो नृपः प्रतापतो रविजयं रवेः सूर्यस्येव जय उत्कर्षो यस्य तं, रविं जेन जवेन याति तं, रविजं सुग्रीवं याति अनुचरति तं सुग्रीवानुचरं वा, शूरतैकपरं क्षात्रधर्मैकनिष्ठमञ्जनोद्भवं हनुमन्तं प्रतिष्ठितमवेक्ष्य समुत् सहर्ष उपप्लुत उपद्रुतोऽभवत् जातः ॥ भारतीये-शूरतैकपरमं शूरतया एका परा मा यस्य तं, जनोद्भवं जनानामुद्भवोऽभ्युदयो यस्मात् तं, समुद्रविजयं यादवकुलं प्रतिष्ठितमवेक्ष्य सोऽखिल उपप्लुत उपद्रुतो नृपो लजितोऽभवत् ॥
इत्यपायवदुपायवन्नयैरेकतश्चलितमन्यतः स्थिरम् ।
राजकार्यमिव राजपुत्रकं दुर्धरं सुधरमप्यजायत ॥ २१ ॥ इत्येति ॥ इत्युक्तप्रकारेणैकत एकस्मिन्स्थानेऽपायवनयैर्दण्डवनीतिभिश्चलितम् , अन्यतोऽन्यत्रस्थाने उपायवन्नयैः सामवन्नीतिभिः स्थिरं, राजपुत्रकं राजपुत्रसमूहः । राजका. यमिव । सुधरमपि दुर्धरमजायत ॥
कोपरक्तकपिलालसदृष्टिस्तां समां ननु चलाङ्गलशोभी ।
वारयन्निति स दूतगुणाढ्यं तं जगाद मृदु वानरराजः ॥ २२ ॥ कोपेति ॥ कोपरक्तकपिलालसदृष्टिः कोपेन रक्तेषु कपिषु लालसा दृष्टिर्यस्य सः, गल. शोभी कण्ठमनोहरः, स वानरराजः सुग्रीवश्चलां चपलां तां सभां वारयन् दूतगुणाढ्यं दूतस्य गुणैः 'मानी धीरश्च शुण्डीरस्तेजस्वी विक्रमी तथा । वपुष्मानीतिमान्वाग्मी दूतः स्यादष्टभिर्गुणैः ॥' इत्युक्तैराव्यं तं लक्ष्मणं मृदु यथा स्यात्तथा इति वक्ष्यमाणं जगाद ॥ भारतीये-कोपरक्तकपिलालसदृष्टिः कोपेन रक्ता कपिला अलसा दृष्टिर्यस्य सः, लाङ्गल. शोभी बलभद्रो नरराजः । तं पुरुषोत्तमनामानं जरासंघदूतम् ॥
अन्तरङ्गमनुभावमाकृतिः संयमो गुरुकुलं श्रुतं शमः ।
वागियं च तव तात सौष्टवं साधु सेधयति मार्दवं क्षमा ॥ २३ ॥ अन्तरेति ॥ सेधयति ज्ञापयति । ज्ञानार्थत्वान्नात्वम् ॥
रूपमेव तव शीलमुदारं स्थेयसी प्रकृतिमुन्नतिभावः ।
स्वामिभक्तिमुचितामनुरागः सूचयत्यनुनयं नयमार्गः ॥ २४ ॥ रूपेति ॥ [स्पष्टम् ।