________________
१० सर्गः]
द्विसंधानम् । वेलया विहितकार्यसाधनं धैर्यविक्रममगाधतां गुरुम् ।
बिभ्रतस्तव पयोनिधेरपि क्षोभमेकमपहाय नान्तरम् ॥ २५ ॥ वेलयेति ॥ वेलया कालविशेषेण विहितकार्यसाधनं कृतं कार्यस्य साधनं येन तादृशं धैर्यविक्रमं धैर्ये विक्रमं च गुरुम् अगाधतां च बिभ्रतस्तव पयोनिधेः एकं क्षोभमपहाय अन्तरं भेदो नास्ति । पयोनिधिस्तु वेलया मर्यादया ॥
उन्नतोऽसि विशदोऽसि हिमानीगौरवं समुपयशिशिरोऽसि ।
हन्त ते हिमवतश्च कथं वागर्हिता दहनवृत्तिरियं स्यात् ॥ २६ ॥ उन्नतविति ॥ त्वं गौरवं समुपयन् हि निश्चयेन मानी असि । हन्त कष्टं दहनवृत्तिः संतापजननी इयं ते वाग् अर्हिता पूजिता कथं स्यात् ॥ हिमवांस्तु हिमानीगौरवं हिमसं. हतिगरिमाणं समुपयन् शिशिरोऽस्ति अतस्तस्य गर्हिता निन्द्या दहनवृत्तिः कथं वा स्यात्॥ तुल्योपमा ॥
संविधाय बहुमानमुच्चकैर्विप्रियं यदभिधीयते गिरा।
अम्बु शीतमभिवृष्य चित्रया तद्वितप्यत इवोत्कटातपम् ॥ २७ ॥ संविधायेति ॥ उच्चकैबहुमानं संविधाय यत् गिरा विप्रियमभिधीयते, तत् शीतम् अम्बु अभिवृष्य चित्रया नक्षत्रेण उत्कटातपं यथा स्यात्तथा वितप्यते इव ॥ उपमोपालम्भः॥
ज्ञायते च भवतः पतिरुच्चैर्विक्रमेण भुवनं विजिगीषुः ।
देशकालबलबोधपरीक्षा पौरुषेऽपि ननु सा परिचिन्त्या ॥२८॥ ज्ञायेति ॥ पौरुषे सत्यपि सा देशकालबलबोधपरीक्षा ननु निश्चयेन परिचिन्त्या ॥
पञ्जरे किल करोति किं शुकः पक्षवानपि विदेशमागतः ।
किं शुचावसमये शिखावलः कोकिलश्च मधुरं स कूजति ॥ २९ ॥ पार इति ॥ कोकिलमयूरयोः कूजनसमयस्तु वसन्तप्रावृषौ ॥ अनेन तेषामपि देशकालबोधानामन्वयव्यतिरेको वर्णितौ ॥
देशकालकलया बलहीनः किं व्यवस्यति युतोऽपि शृगालः ।
स त्रयेण सहितश्श्युतबोधः किं न याति शरभस्तनुभङ्गम् ॥ ३० ॥ देशेति ॥ देशकालकलया देशकालज्ञानेन युतोऽपि शृगालो बलहीनः किं व्यवस्यति । अत्र बलव्यतिरेको वर्णितः । त्रयेण देशकालबलेन सहितः स शरभश्चयुतबोधः सन् तनुभङ्गम् किं न याति ॥ अत्र बोधव्यतिरेको व्याख्यातः ॥
बुद्धिसत्त्वबलभाग्ययोग्यतां सर्वतः प्रकृतिरागमात्मनः ।
यः परस्य च न चिन्तयत्ययं यातृयेयसमये विनश्यति ॥ ३१ ॥ बुद्धीति ॥ य आत्मनः स्वस्य, परस्य शत्रोश्च, बुद्धिसत्त्वबलभाग्ययोग्यतां बुद्धेहिताहि