________________
११२
काव्यमाला |
तज्ञानस्य, सत्त्वस्य अन्तरङ्गतेजसः, बलस्य सैन्यस्य, भाग्यस्य दैवस्य, योग्यतां सामग्री प्रकृतिरागं प्रकृतीनां स्वाम्यमात्यादिसप्तप्रकृतीनां रागं स्नेहं च सर्वतः सामस्त्येन न चिन्तयति ॥ अयं यातृयेयसमये गन्तृगम्यकाले विनश्यति ॥
इत्युपायमविचार्य तवार्यः केवलं बलवतीरितकोपः ।
विश्रुतः समरणोद्यमचेता मामृजुप्रकृतिकः प्रतिभाति ॥ ३२ ॥
इत्युपेति ॥ तव लक्ष्मणस्य अर्यो रामः इति पूर्वोक्तम् उपायम् अविचार्य अबुद्धा बलवति प्रबले केवलम् ईरितकोपः प्रेरितकोपः, विश्रुतो विख्यातः, समरणोद्यमचेताः समं युगपद् रणस्योद्यमे चेतो यस्य तादृक्, मां प्रति ऋजुप्रकृतिकः सरलस्वभावो भाति ॥ भारतीये – बलवति बलभद्रयुते कृष्णे, ईरितकोपः । विश्रुतः विगतं श्रुतं यस्य हेयोपादे - यज्ञानविकलः, स जरासंधो मरणोद्यमचेता मरणस्योद्यमे चेतो यस्य इति मां प्रतिभाति ॥ दृष्टवान्न स दशास्यतेजसो भूभृतः खलु निरुन्धतीं दिशः । तिग्मतां यदुदयानुबन्धिनस्तव्यवस्यति वृथा तवाधिपः ॥ ३३ ॥
दृष्टेति ॥ यत् यस्मात्कारणात् स रामस्तवाधिपो भूभृतः पृथिवीपोषकस्य, उदयानुबन्धिन उदयमनुबध्नातीत्येवंशीलस्य, दशास्यतेजसो रावणप्रतापस्य दिशो निरुन्धतीम्तिग्मतां तीक्ष्णतां न दृष्टवान् । तत् तस्मात्कारणात् वृथा व्यवस्यति उत्सहते ॥ भारतीये – सः यदुदयानुबन्धिनो यदूनां यादवानां दयामनुबध्नातीत्येवंशीलस्यास्य भूभृतो ना, रायणस्य तेजसो दश दिशो निरुन्धतीं तिग्मताम् ॥
अन्तकोऽपि वरुणोऽपि कुबेरो वासवोऽपि स यमेव भयार्तः । पश्यति प्रकुपितं प्रहरन्तं स्वप्नदर्शन कृपाणतलेषु ॥ ३४ ॥ अन्तेति ॥ स लोकप्रसिद्धोऽन्तको वरुणः कुबेर इन्द्रोऽपि प्रकुपितं प्रहरन्तं यमेव स्वप्नदर्शनकृपाणतलेषु स्वप्नेषु खड्गतलेषु च भयार्तः सन् पश्यति ॥
योऽन्यमर्यमणमप्यतिक्रमप्रक्रमं न सहते प्रतापिनम् ।
नागमन्तमनयन्महोद्धतिं यो जगन्नयबलेन तायते ॥ ३५ ॥
योऽन्यमिति ॥ योऽन्यं प्रतापिनं सप्रभावम् अतिक्रमप्रक्रमम् अतिक्रमं प्रक्रामति अतिक्रमस्य प्रक्रमो यस्य तम् अर्यमणमपि न सहते । तथायस्तं प्रसिद्धम् आगमं राजविद्यां मोति परमोत्कर्षन अनयत्, तथा यो जगत् नयबलेन नीतिसामर्थ्येन न तायते पालयति || भारतीये – प्रतापिनं धर्मकरम्, यो महोद्धतिं गर्विष्ठं नागं कुवलयापीडगजं कालियफणीन्द्रं च अन्तं नाशम् अनयत् । नयबलेन जगद् यस्तायते ॥
यः पूतनामादरमुक्तवृत्ति घोराञ्चलामाकृतिदारुणां ताम् । बालोऽप्यपीडत्कुपितोऽरिमूर्ति स्पर्धेच्छया वः किमनेन सार्धम् ||३६|| यः पूतेति ॥ पूतनामा पवित्रनामा यो बालोऽपि कुपितः सन् दरमुक्तवृत्तिं दरेण भयेन