________________
१० सर्गः]
द्विसंधानम् ।
- ११३
मुक्ता कृत्तिः प्रजापालनलक्षणा यया तो घोरा तीव्रां चला चपलां आकृतिदारुणाम् आकृत्या कोपप्रसादजनितधर्मेण दारुणां सोढुमशक्याम् अरिमूर्ति शत्रुमर्तिम् अपीडस्, अनेन साधं वो युष्माकं स्पर्धया किम् ॥ भारतीये-अरिमूर्ति शत्रुरूपिणीम्, आदरमुक्तवृत्तिम् घोराञ्चलां पूतनाम् ॥ इन्द्रवज्रावृत्तम् ॥
योलकेशीत्यायतिमायादिशि तीवां वैरी नामाघानि स येन प्रजिघांसुः। ये देवानां धाम समक्षं च विमानं तेजोवृत्त्या वैश्रवणीयं हरति स्म ॥३७॥ योलङ्केति ॥ यस्तीवां कष्टलब्धां लङ्केशी इति आयतिं प्रख्यातिम् आयात्, येन प्रजिघांसुः स वैरी नाम प्रसिद्धौ अघानि, यो देवानां समक्षं प्रत्यक्ष तेजोवृत्त्या वैश्रवणीयं कुबेरसंबन्धि धाम लङ्काख्यं विमानं पुष्पकसंज्ञं च हरति स्म ॥ भारतीये-यः अलमत्यर्थे केशी इति आयतिम् । वैरी मधुकैटभादिः । देवानां विमानमसंख्यं धाम तेजः । श्रवणीयं श्रोतव्यम् ॥ मत्तमयूरं छन्दः ॥
वैरन्तुङ्गोवर्धनमिच्छन्ननु दृष्ट्वा कीत्येकैलासं गतमुच्चैःस्थितिमुग्रः । तं यो लोकं वायुरिवोर्ध्व धरति स्म त्रुट्यत्तन्तूभूतभुजंगं भुजदण्डैः॥३८॥
वैरेति ॥ ननु आश्चर्ये । तुङ्गो मानी, उग्रस्तीव्रः, यो रावणः वैरं दृष्ट्वा वर्धनम् इच्छन् सन् की यशसे, उच्चैःस्थितिं गतं तं कैलास पर्वतम् , वायुरूवं लोकम् इव भुजदण्डैः, त्रुट्यत्तन्तूभूतभुजंगं त्रुट्यन्तस्तन्तूभूता भुजंगा यत्र कर्मणि यथा स्यात्तथा, धरति स्म ॥ भारतीये-कीर्त्या उग्रो यो नारायण: वै निश्चयेन रन्तुं क्रीडितुं इच्छन् गोवर्धन पर्वतं दृष्ट्वा तं पर्वतं की, सह, वा एकैलासं एकः केवल ऐलानामिलाभवानां कुजानां वृक्षाणाम् आसः क्षेपणं यत्र कर्मणि भवेत्तथा ॥
यस्य द्विषां शृङ्खलखंकृतानि प्रबोधतूर्यध्वनिमङ्गलानि ।
य ईदृशं प्रार्थयतेऽत्र साक्षाद्वैश्वानरः साहसिकः स एव॥ ३९॥ यस्येति । यस्य रावणस्य द्विषां शत्रुणां शृङ्खलखंकृतानि, [यस्य] प्रबोधतूर्यध्वनिमङ्गलानि आसन् ईदृशं रावणं यः पुरुषोऽत्र युद्धे प्रार्थयते स साहसिको हठप्रवृत्तिः साक्षात् वैश्वानरो वहिरेवास्ति ॥ भारतीये-वै निश्चये स नरः श्वा ॥ उपजातिः॥
किं विग्रहेणोभयजन्मनाशादन्योन्यमालिङ्गय भुजोपरोधम् ।
सुखेन जीवाम निजानुकूलं विवाहसंबन्धपरम्पराभिः ॥ ४० ॥ किमिति ॥ उभयजन्म कुलद्वयम् ॥ इति तस्य निशम्य तीवभूयं भुवनेशासनहारिणा बभाषे । परुषं पुरुषोत्तमेन पत्यौ न सुभृत्यः क्षमते क्षिपां हि जात्यः॥ ४१ ॥ इतीति । भुवनेशासनहारिणा भुवनेशानां नलनीलादीनाम् आसनं हरति तच्छीलेन पुरुषोत्तमेन लक्ष्मणेन तस्य सुग्रीवस्य इति उक्तप्रकारेण तीवभूयं तीव्रतां निशम्य परुषं