________________
११४
काव्यमाला |
बभाषे || हि यतः जात्यः सुभृत्यः पत्यौ स्वामिविषये क्षिपामाक्षेपं न क्षमते । भारतीयेभुवने जगति, शासनहारिणा लेखवाहिना, पुरुषोत्तमेन तन्नामकजरासंघदूतेन ॥ औपच्छन्दसिकंवृत्तम् ॥
त्वमिहात्थ यथा तथा स नो चेत्सुभटः प्राणपरिव्यये सहिष्णुः । किमहोत्सहतेऽधिपो ममाहुर्निजशूरेषु हि विप्रियं प्रियं वा ॥ ४२ ॥ त्वमिति ।। त्वम् इह स्वभवने यथा तथा यदृच्छया आत्थ ब्रवीषि, चेत् यदि समस्वामी, सुभटः, प्राणपरिव्यये प्राणत्यागे, सहिष्णुश्च न स्यात्, इह युद्धे मम अधिपः किम् उत्सहते । हि यतः निजशूरेषु आत्मना धीरेषु विप्रियं प्रियं वा आहुर्वदन्ति सूरयः ॥ यदेष राज्ञः प्रथमं परिग्रहस्तदाहवेऽन्यैर्न हतो हतैरपि ।
समापतन्तं मृगयुर्मदोद्धतं न राजवध्यं हि शृणाति शूकरम् ॥ ४३ ॥ यदेषेति ॥ यत् यस्मात् एष रावणो नारायणश्च राज्ञः परिग्रहो भोग्यः, तत्तस्मात्कारणात् आहवे युद्धे हतैः पीडितैरपि अन्यैः शत्रुभिर्न हतो मारितः । हि यतः मृगयुः पापर्द्धिकः समापतन्तं संमुखमागच्छन्तं मदोद्धतं मदोत्कटम् अपि राजवध्यं शूशुकरं न शृणाति हिनस्ति ॥ वंशस्थं वृत्तम् ॥
ऊढवान्यदपि गण्डशैलकं तन्न कारणमुदारमुन्नतेः ।
भूरिभारवहनं क्रमेलकः श्लाध्यते युधि वधं तु सिन्धुरः ॥ ४४ ॥
ऊढेति ॥ गण्डशैलकं गिरिच्युतस्थूलोपलसमूहं यदपि ऊढवान् आरूढवान्, तत् उदारम् उन्नतेः कारणं न । क्रमेलक उष्ट्रो भूरिभारवहनं कर्तुं श्लाघ्यते, सिन्धुरो गजस्तु युधि वधं कर्तुं श्लाघ्यते ॥ रथोद्धता वृत्तम् ॥
वरमिह ततः सारामेया क्रियेत विधेयता
तु लघुजरा संधेयास्मिन्प्रतापिनि वक्रता । क्वचिदपि न वः स्वामी साहायकं प्रति नाथति सुपथगमनप्रारम्भाय प्रभोरयमुद्यमः ॥ ४५ ॥
वरमिति ॥ ततः तस्मात्कारणात् या इह रामे विधेयता प्राञ्जलत्वम्, क्रियेत विधी - येत् सा वरम् । प्रतापनि अस्मिन् रामे लघुजरा लघ्वी जरा यस्यास्तादृक् नश्वरी वक्रता कुटिलता तु न संधेया संघातव्या । स्वामी क्वचिदपि [विषये] वो युष्माकं साहायकं प्रति न नाथति याचते । 'नाथते' इति पाठे तु साहायकं प्रति साहायकं लक्षीकृत्य वः युष्माकं नाथते यूयं सहाया भूयास्तां इत्याशास्ते । 'आशिषि नाथ:' इति सूत्रेण कर्मणि षष्ठी । प्रभोः अयम् उद्यमः सुपथगमनप्रारम्भाय न्यायमार्गानुसरणप्रारम्भाय, अस्ति ॥ भारतीये- - या सारा अमेया विधेयता अस्मिन् जरासंधे लघु शीघ्रं विधीयेत, सा वरम् । वक्रता नासावस्ति | वो युष्माकं स्वामी साहायकं प्रति क्वचिदपि न नाथते । नाथत एव । सुपथगमनप्रारम्भाय अमायानुसरणप्रारम्भाय ॥ हरिणीवृत्तम् ॥