SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ११ सर्गः] द्विसंधानम् । नाथोऽभ्युपेत्य विनयेन ततोऽनुनेय. ___ स्तस्य द्विषामिव दशा भवतां च मा भूत् । इत्याशु धीप्सितमुदीर्य ययौ स देशं श्रीसाधनं जयधियां खलु विक्रमोक्तिः ॥ ४६ ॥ इति धनंजयकविविरचिते धनंजयाङ्के राघवपाण्डवीयापरनाम्नि द्विसंधानकाव्ये लक्ष्मण सुग्रीवजरासंधदूतनारायणान्योन्यविवादकथनो नाम दशमः सर्गः समाप्तः ।। नाथोऽभ्युपेत्येति । ततस्तस्मात्कारणात् नाथो विनयेन अभ्युपेत्य अनुनेयः । भवतां दशा द्विषामिव मा भूत् । इति उक्तप्रकारेण धीप्सितं दम्भवाक्यं वक्तुमिष्टम् उदीर्य स आशु देशं स्थानं ययौ । जयधियां विक्रमोक्तिः श्रीसाधनं खलु । भारतीये-देशं स्वविषयम् ॥ वसन्ततिलकावृत्तम् ॥ इति श्रीदाधीचजातिकुद्दालोपनामकश्रीच्छोटीलालात्मजश्रीबदरीनाथविरचितायां द्विसंधानकाव्यटीकायां लक्ष्मणसुग्रीवजरासंधदूतनारायणान्यो. न्यविवादकथनो नाम दशमः सर्गः ॥ एकादशः सर्गः। यस्यां नाथाः सप्रभावानराणां हित्वास्थानीं तां ययौ मन्त्रशालाम् । क्षुण्णैः कैश्चिन्नीतिमानेकपीनां विद्यास्वों दीप्रभावासुदेवः ॥ १॥ यस्यामिति ॥ नीतिमाने नीतौ माने च अर्घ्यः पूज्यः कपीनां देवः सुग्रीवः, सप्रभाः तेजस्विनो वानराणां नाथाः यस्यामासन् , तामास्थानी सभां हित्वा दीप्रभावासु दीप्रः संशयमलपरित्यागतया विशदो भावो हेयोपादेयलक्षणविवेचकपरिणामो यासु तादृक्षु विद्यासु क्षुण्णैः कृताभ्यासैः कैश्चित्परिमितैर्मत्रिभिः सह मन्त्रशालां ययौ ॥ भारतीयेनीतिमान् दीप्रभाः दीपा भा यस्य तादृक्, वासुदेवः, सप्रभावाः प्रभावसहिताः नराणां नाथाः समुद्रविजयादयः, एकपीनां स्कन्धोपपीडमुपविष्टैः सामन्तादिभिरविच्छिन्नतया संभृताम् आस्थानीम् ॥ सर्गेऽस्मिशालिनीवृत्तम् ॥ शान्तारावे शारिकाद्यप्रवेशे देशे मन्त्रं पञ्चकं शास्त्रशुद्धैः ।। इत्यारेभे मन्त्रिभिदृष्टशौचैर्दूरं दीर्घ ध्यायतां कार्यसिद्धिः ॥ २॥ शान्तारेति ॥ [सुग्रीवो नारायणश्च] शुकसारिकादिभिभिन्नो मन्त्रो दृष्टः । दृष्टशौचैः । शौचश्चात्र शत्वादिभिरमेलनं केवलं स्वामिकार्यतत्परता कुलीनता च ॥ अप्रारम्भात्कार्यमाकौशलाद्वा स्थानत्यागात्कामतः शेषतो वा । नातिक्रान्तं प्राप्यते यौवनं वा तेनालोच्यं वोऽनुबन्धैश्चतुर्भिः ॥ ३ ॥ अप्रारेति ॥ कार्यमप्रारम्भादाकौशलादनैपुण्यात स्थानत्यागात् कामतो यदृच्छातः शेषतः
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy