SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ११६ काव्यमाला | क्रोधादितो अतिक्रान्तं यौवनमिव न प्राप्यते । तेन चतुर्भिरनुबन्धैः 'अर्थोऽर्थानुबन्धी, अर्थोऽनर्थानुबन्धी, अनर्थोऽर्थानुबन्धी, अनर्थोऽनर्थानुबन्धी,' इत्येवंरूपैः कार्यमालोच्यम् । शिष्टैर्जुष्टं रक्षितं दण्डनीत्या दृष्टं चोच्चैर्यच्च पुण्यग्रहेण । कार्यद्वारं श्रीगृहद्वारभूतं तस्मिन्मूढं दिग्विमूढं निराहुः ॥ ४ ॥ शिष्टैरिति ॥ यत्कार्यद्वारं शिष्टैर्जुष्टं सेवितम् दण्डनीत्या रक्षितम्, उच्चैरत्यर्थे पुण्यप्रहेण दैवानुग्रहेण दृष्टम्, तत् श्रीगृहद्वारभूतं लक्ष्मीमन्दिरद्वारभूतमस्ति तस्मिन् मूढं (नरम् ) दिग्विमूढं दिशा विमूढमाहुः ॥ तच्चैकैकं यन्मुखेनैककेन प्राप्तं योज्यं ग्रासवद्भावि पथ्यम् । नानाद्वारैरापतद्वा हृषीकैर्दृश्यस्पृश्यादीव ताह्यमेभिः ॥ ५ ॥ • तच्चैकैकमिति ॥ यदेककेन मुखेन प्राप्तमेकैकं ग्रासवत् पथ्यं भावि तत् कार्ये योज्यम् । अथवैभिर्नानाद्वारैर्मन्त्रस्य पञ्चावयवैरापतदागच्छत् [ अपि ] तत् कार्यम् । हृषीकैः स्पर्शनरसनघ्राणलोचनश्रवणैरिन्द्रियैः दृश्यस्पृश्यादीव । पृथक् पृथक् स्वस्वविषयः स्वेन स्वेनैव गृह्यते, तद्वत् ग्राह्यम् । नतु सांकर्ये प्रसञ्जनीयम् ॥ तत्सर्वं वारम्यमल्पाल्पमेव स्वीकर्तव्यं कर्म कालक्षमं चेत् । गौराहारं हृद्यमाहृत्य विश्वं कामं रोमन्थायतेऽनुक्रमेण ॥ ६ ॥ तदिति ॥ अथवा चेद्यद्यल्पाल्पं स्तोकं स्तोकमेव कर्म कालक्षमं भवेत्, तदा सर्वमारभ्यं स्वीकर्तव्यम् । गौविश्वं सर्व हृद्यमाहारं तृणादि कामं यथेष्टमाहत्यानुक्रमेण रोमन्थायते चर्वितस्य चर्वितं करोति ॥ कार्यस्यादौ यः प्रयुङ्क्ते न नीतीं गच्छन्त्यस्य खादुभावं न भोगाः । नूनं धात्राप्येतदर्थं जनानां जिह्वास्येषु स्थापिता नोदरेषु ॥ ७ ॥ कार्येति ॥ [स्पष्टम् ।] कस्यात्यन्तं मित्रमेकान्ततो वा शत्रुः कृत्यं शत्रुमित्रत्वहेतुः । यस्यारम्भान्नातिवर्तेत सख्यं वैरं वारात्येन तत्कर्म कुर्युः ॥ ८ ॥ कस्येति ॥ अत्यन्तमतिशयेनाजन्मपर्यन्तं कस्यापि मित्रं स्यात् । न कस्यापीति भावः । अथवा शत्रुरेकान्ततो नियमेनास्ति, न कस्यापि । कृत्यं कर्मैव शत्रुमित्रत्वकारणमस्ति । अतो यस्य कर्मण आरम्भात् सख्यं नातिवर्तेत नापगच्छेत् । आरात्येन शत्रुसमूहेन वैरं ना जनो अतिवर्तेत । तत् कर्म कुर्युः ॥ अभ्यादत्ते कार्यजं योनिजं वा प्राप्तं मित्रं शत्रुमप्राप्तमेव । तस्य श्लाध्यं जन्म कृत्वावधानं किं तूत्तापोरावणीयोऽपि चिन्त्यः ॥ ९ ॥ अभ्यादत्त इति ॥ यः कार्यजं कर्मजन्यं योनिजमन्वयपरम्परागतं वा प्राप्तं वर्तमानं
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy