________________
११ सर्गः] द्विसंधानम् ।
११७ मित्रम् प्राप्तं भाविनमेव शत्रुमभ्यादत्ते प्रतिगृह्णाति, तम्य जन्म लाध्यम् । अतः कारणात् किंतु अनुशये अवधानं तत्परतां कृत्वा रावणीयो रावणसंबन्धुत्तापोऽपि चिन्त्यः ।। भार. तीये-अणीयः सूक्ष्मतरम् अवधानं कृत्वा अरावुत्तापश्चिन्त्यः ॥
यद्वंशस्य प्रामवं लोकरूढं यः शौरीयं धाम संहर्तुमीशः । बद्धस्पर्धोऽनेन विद्वेषभाजा सार्धं मित्रैर्गोत्रनाशं समेति ॥ १० ॥ यद्वंशस्येति ॥ यो रामो लोकरूढं जगत्प्रसिद्धं यद्वंशस्य रावणान्वयस्य प्राभवं माहात्म्यम् , शौरीयं सूर्यसंबन्धि शूरसमूहसंबन्धि वा धाम तेजः, (च) संहर्तुमीशः । विद्वेषभाजा विरोधभाजानेन रामेण बद्धस्प? रावणो मित्रैः सार्ध गोत्रनाशं समेति ॥ भारतीये-यो जरासंधो यद्वंशस्य यदूनामंशस्य नारायणस्य, शौरीयं नारायणीयं विद्वेषभाजा विदां पण्डितानां वेषमाकारं भजता ॥
स्वस्यारेश्चायोधयन्मित्रमित्रं मित्रं पाणिग्राहमाक्रन्दकं च । नन्वासारावप्युपायैर्जिगीषुः शक्त्यासिध्याभ्युद्यतो हन्त्यरातिम् ॥ ११ ॥ स्वस्येति ॥ शक्त्या 'प्रभुशक्तिर्भवेदाद्या मत्रशक्तिद्वितीयका । तृतीयोत्साहशक्तिश्चे. त्याहुः शक्तित्रयं बुधाः ॥' इत्युक्तशक्तित्रयेण, सिद्ध्या पुण्यपाकेनाभ्युद्यतः सामस्त्येनो. त्थितो जिगीषुः स्वस्यात्मनो मित्रमित्रेणारेः शत्रोमित्रमित्रम्, मित्रेण मित्रम्, पाणिग्राहेण 'जिगीषोः पृष्ठतः पाणिग्राहाक्रन्दावुपस्थितौ। तदासारौ तु विज्ञेयौ मध्यस्थी पार्श्वयोरपि ॥' इत्युक्तलक्षणेन पाणिग्राहम्, आक्रन्दकेनाक्रन्दकम्, आसाराभ्यामासारावध्यायोधयन् सन् उपायैः सामादिभिश्चतुर्भिः अराति हन्ति ॥ रक्षोपायः शक्यते केन कर्तुं कः क्रुद्धेऽस्मिन्वामयीहेत योद्धम् । उद्योक्तव्यं नैष कालः क्षमाया योज्यो योगक्षेमसिध्यै हि दण्डः॥१२॥ रक्षोपेति ।। वामे प्रतिकूलेऽस्मिन् रावणे क्रुद्ध सति केन रक्षोपायः कर्तुं शक्यते, को योद्भुमीहेत । तस्मादुद्योक्तव्यं युद्धायोद्यमः कार्यः । एष कालः क्षमाया न । योगक्षेमसिद्ध्यै योगस्यालब्धलाभस्य क्षेमस्य लब्धपरिरक्षणस्य च सिद्ध्यै दण्डः सैन्यं योज्यः ॥ भारतीये-अस्मिन् मयि विष्णौ ॥
इत्येतस्मिन्नुक्तवत्येतदेवं धीरोदात्तं धर्मजन्मा बभाषे । गाम्भीर्येणानूनभाजाम्बवोऽसौ राशिः सत्त्वस्याश्रयः शौर्यवृत्तेः ॥१३॥ इत्येतेति ॥ धर्मजन्मा धर्मोपलक्षितं जन्म यस्य तादृक्, अनूनभाः प्रचुरकायकान्तिः, सत्त्वस्य गाम्भीर्येण राशिः, शौर्यवृत्तेराश्रयोऽसौ जाम्बव ऋक्षराज एतस्मिन् सुग्रीवे एतदेवमुक्तवति सति धीरोदात्तं यथा स्यात्तथेति वक्ष्यमाणं बभाषे ॥ भारतीये-अनून
१. 'शूरश्चाटुभटे सूर्ये' इति विश्वप्रकाशात् 'सुभटे शूरः सूर्ये च दन्त्योऽपि' इत्यूष्मविवेकात्सूर्येऽपि तालव्यादिः.