SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ११८ काव्यमाला। भाजा प्राचुर्य भजता गाम्भीर्येण सत्त्वस्य आम्बवो राशिः समुद्रः, धर्मजन्मा युधिष्ठिरः ॥ एतस्मिन् कृष्णे ॥ कर्मोपायं प्रक्रमं तत्फलाप्ति साधूदाख्यत्पौरुषेणानुविद्धम् । वस्तूदात्तं भूरिवागल्पसारा स्वल्पे दृश्यं दर्पणे हि स्थवीयः ॥ १४ ॥ कर्मोपेति ॥ जाम्बवान् युधिष्ठिरश्च पौरुषेण अनुविद्धमनुस्यूतं वस्तूदात्तमर्थसमृद्धं, कर्मोपायं बलदुर्गराष्ट्रविन्यासादिविषयमात्मीयं प्रक्रमं षड्गणविषयं तत्फलाप्ति कार्यारम्भाकार्यफलं, साधु यथा स्यात्तथा स्यात्, उदाख्यदुदाहरत् । भूरिवाग् प्रचुरवचनमल्पसा. राल्पार्था तुच्छा भवति । हि यतः स्वल्पेऽपि दर्पणे स्थवीयः स्थूलतरं दृश्यं भवति ॥ किं व्यायामो यो विहीनः शमेन व्यायाम यः प्रेक्षते किं शमस्तौ । योगक्षेमस्यैतयोः षड्गुणास्ते योनिस्तेभ्यः स्थानवृद्धिक्षयाः स्युः ॥१५॥ किमिति ॥ यः शमेन क्षमासाधनेन स्वर्गफलेन विहीनः, स किं व्यायाम: कार्यारम्भाणां योगाराधनलक्षणः, यः शमः व्यायामं प्रेक्षते स किं शमः । तौ शमव्यायामौ योगक्षेमस्य योनिः, एतयोः शमव्यायामयोः षड्गणाः संधिविग्रहयानासनसंश्रयद्वैधीभावलक्षणाः योनिः । तेभ्यः षड्गुणेभ्यः स्थानवृद्धिक्षयाः स्युः ॥ तद्यातव्यं तत्प्रकृत्यानुकूल्यं दैवं मायं कर्मनिर्माणशक्तिम् । · ध्यात्वा कृत्याकृत्यपक्षान्गृहीत्वा वाग्दानाभ्यामुद्यतेनाभिषेण्यम् ॥१६॥ तदिति ॥ तत् तस्मात्कारणात्, उद्यतेन जिगीषुणा, तत्प्रकृत्यानुकूल्यं शत्रुप्रकृतीनां स्वाम्यमात्यादीनामानुकूल्यं, दैवं भाग्यं, मायै नयानयलक्षणं, कर्मनिर्माणशक्ति कार्यनिपत्तियोग्यतां, ध्यात्वा वाग्दानाभ्यां कृत्याकृत्यपक्षान् भेद्याभेद्यपक्षान् गृहीत्वा आदाय अभिषेण्यं सेनया सह यातव्यम् ॥ साम्ना मित्रारातिपातौ भवेतां दण्डेनारं केवलं नैव मैत्री। सान्त्वे दण्डः साम दण्डे न वढेर्दाहोऽस्त्येकः शैत्यदाही हिमस्य॥१७॥ साम्नेति ॥ साना मित्रं शत्रुपातश्च भवेताम्, दण्डेन केवलम् आरं शत्रुता स्यात्, न मैत्री । अतः सान्त्वे साम्नि दण्डः, दण्डे साम न प्रयोज्यम् । वङ्गरेको दाहोऽस्ति, हिमस्य शैत्यदाही भवतः॥ तीक्ष्णो नादः साधयेद्यन्नदीयान्मूलं नाप्नोत्यग्निरापः खनन्ति । किंच प्राप्यं वक्रशीलो न यावद्यात्येवर्जुस्तावदभ्येत्य भुङ्क्ते ॥ १८ ॥ तीक्ष्ण इति ॥ यत् कार्य म्रदीयान् साधयेत्, अदस्तीक्ष्णस्तीवो न साधयेत् । यतः अग्निर्मूलं (वृक्षस्य) न आप्नोति, आपस्तु मूलं खनन्ति । किं च यावत् वक्रशीलः प्राप्यं वस्तु न याति, तावदेव ऋजुरभ्येत्य प्राप्यं भुते ॥
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy