________________
११ सर्गः ]
द्विसंधानम् ।
साम्नारब्धे शात्रवे किं चरैर्वा भेद्या दूतैरेव तस्योपजाप्याः । भिन्नं राज्यं सुप्रवेशं मणि वा वज्रोत्कीर्ण निर्विशेकि न तन्तुः ॥ १९ ॥ साम्नेति ॥ साम्ना शात्रवे शत्रुसमूहे आरब्धे चरैः किम्, तस्य शत्रोरुपजाप्याः कर्णेजपाः साम्ना भेद्याश्चेत् दूतैरेव किम् । भिन्नं राज्यं । वज्रोत्कीर्णे मणिं वा इव । सुप्रवेशं यथा स्यात्तथा तन्तुः किं न निर्विशेत् । विशेदेव ॥
नानामार्गः पांसुलो दीर्घसूत्रः शत्रुः पन्थाश्चाप्तगत्यागमेन ।
यत्तत्क्षेपं जायते तत्कदा वा गम्यो नीचैश्चक्षुरप्रक्रमेण ॥ २० ॥
११९
नानेति ॥ नानामार्गः समृद्धासमृद्धप्रायः, पांसुलः पापभूयिष्ठः, दीर्घसूत्रो भाविकार्यफलसंपदन्वेषी शत्रुर्यदा आप्तगत्यागमेन आप्तानामवञ्चकानां यातायातेन, तत्क्षेपं तेषामवञ्चकाप्तानां क्षेपस्तिरस्क्रियाविशेषो यत्र कर्मणि यथा स्यात्तथा जायते, (तर्हि) कदा कदापि अविचारित एव नीचैर्न्यायमार्गहीनैः क्षुरप्रक्रमेण बाणश्रेण्या, नीचैश्चक्षुरप्रक्रमेण नीचैश्च - क्षुषां तेषामाप्तानाम् अप्रक्रमेण गम्यो वैरिभिर्येयो भवति । नानामार्गः प्राञ्जलाप्राञ्जलप्रायादिबहुप्रकारः, पांसुलो रेणूत्करसहितः, दीर्घसूत्रो दूरतरः पन्था अपि आप्तगत्यागमेन सघृणयातायातेन तत्क्षेपं ततस्तस्माद्देशात्क्षेपः क्षेपणीयानां कण्टकादीनां दूरीकरणं यत्र कर्मणि यथा स्यात्तथा जायते तर्हि कदाप्यविचारेणैव नीचैश्चक्षुरप्रक्रमेण अधोनयनव्यापारमन्तरेणैव गम्यः । कण्टकादिमति तु नयनव्यापारमन्तरा पीडा स्यादिति ॥
अप्यज्ञात्वा रावणावार्यशक्ति के मे तन्त्रावापयोश्चेत्यमत्वा ।
नो स्थातव्यं देशकालानपेक्षं शय्योत्थायं धावतां कार्यसिद्धिः ॥ २१ ॥ अपीति ॥ रावणावार्यशक्ति रावणस्याप्रतिषेध्यशक्तिमप्यज्ञात्वा मे मम तन्त्रावापयोः तन्त्रे स्वप्रकृत्युत्पत्तिविधानलक्षणे आवाप परशक्तीनामात्मनि विषयेऽध्यारोपलक्षणे चापि के सन्ति इति मत्वा देशकालानपेक्ष देशकालावनपेक्ष्य नो स्थातव्यम् । शय्योत्थायं शय्यात उत्थाय धावतां नराणां कार्यसिद्धिर्भवति ॥ भारतीये – हे आर्य, अणौ अपि अ शत्रौ शक्तिम् ॥
इत्याकूतं तस्य भीमोहितस्य ज्ञात्वालापैरञ्जनानन्दनोऽसौ ।
इत्थंकारं पथ्यमर्थे जगाद न्याय्यं नोपेचिक्षिषन्ते हि सन्तः ॥ २२ ॥
इतीति ॥ असौ अञ्जनानन्दनो हनूमान् भीमोहितस्य भिया मोहितस्य भीममूहितं यस्येति वा तस्य ऋक्षराजस्य इति आकूतमाशयम् आलापैर्ज्ञात्वा इत्थंकारमित्थं वक्ष्यमाणरीत्या पथ्यं न्यायानपेतम् अर्थे जगाद । हि यतः सन्तः न्याय्यं न उपेचिक्षिपन्त उपेक्षितुमिच्छन्ति ॥ भारतीये – रञ्जनानन्दनो रञ्जनया चित्ताह्लादनोपायलक्षणया नन्दयति तादृक् भीमो वृकोदरो हितस्याव्यभिचारिणस्तस्य युधिष्ठिरस्य ॥
न्यूना वाणी नोपकुर्याज्जडानामुन्मूढानां चाधिकोद्वेजनाय |
न स्तोकेयं तावकी नातिरिक्ता वस्तूपात्तान्वेति लावण्ययुक्तिम् ॥ २३॥