SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। स धृतेति ॥ धृतव्यजनेन धृततालवृन्तेन, परमङ्गलमङ्गलघोषकृता परमुत्कृष्टं मङ्गलं दू. क्षितादिमङ्गलद्रव्यसंनिधानं मङ्गलघोषं गीतसूक्तपाठादि च कुर्वता, नगरी पुरम् अभिरञ्जयता अभि सामस्त्येन रञ्जयता सुधागैरिकादिभिर्लेपयता, जनेन 'जयतात्' इति वाक्यविभागं गमितः प्रापितः स रावणो युधिष्ठिरश्च पुरं लङ्कां द्वारकां च इतः प्रविष्टः ॥ तोटकवृत्तम् ॥ खगोचरं जल्पमधिस्त्रि शृण्वन्संमान्यलङ्कारमणीन्निरूप्य । हर्म्यस्थकन्योज्झितपुष्पलाजं स राजमार्ग नृपतिः प्रपेदे ॥ ४९ ॥ स्वगोचरमिति ॥ स नृपती रावणः संमान्यलकारमणी संमाननीयलङ्कानगरीमेव रमणीं प्रियां निरूप्यावलोक्य अधिस्त्रि स्त्रीमध्ये स्वगोचरं स्वविषयकं जल्पं वृत्तान्तं शृण्वन् सन् हर्म्यस्थकन्योज्झितपुष्पलाजम् प्रासादस्थितकुमारीप्रक्षिप्तानि पुष्पाणि लाजा भृष्टत्रीहयो यत्र तं राजमार्ग प्रपेदे प्राप ॥ भारतीये-संमान्यलंकारमणीन् समानिनः सम्यक् मां लक्ष्मीमनन्ति प्राणन्ति पुष्टिं नयन्ति तथाभूतान् अलंकारभूतान् मणीन् निरूप्य नृपतिर्युधिष्ठिरः ॥ श्लेषः ॥ उपजातिः ॥ आी बालाश्चिक्षिपुस्तस्य शेषामुच्चैरूढा येन सा धूर्वरायाः । आलोकान्तं कीर्तिलक्ष्मीप्रतापैरुच्चै रूढायेन साधूर्वरायाः ॥ ५० ॥ . आर्द्रामिति ॥ रूढा येन रूढो जगत्ख्यातः अयः शुभावहो विधिर्यस्य तेन, येन नृपेण वरायाः शोभनायाः, उर्वरायाः सर्वशस्याझ्यभूमेः, सा, उच्चैमहती, धूः, आलोकान्तं लोकत्रयं यावत् , कीर्तिलक्ष्मीप्रतापैः साधु लोकप्रशंसाविषयत्वान्मनोहारि यथा स्यात्तथा उ. चैर्वाढम् उढा । तस्य राज्ञस्तदुपरि बाला मुग्धा आर्दो शेषां देवनिर्माल्यं चि. क्षिपुः ॥ शालिनी ॥ विभीषणाभ्युन्नतकुम्भकर्णमुख्यैर्महानागबलैर्युतेन । पराक्रमेणेन्द्रजितोद्धतेन प्रत्यभ्युदीये हरिणेक्षणेन ॥ ५१ ॥ विभीषणेति ॥ विभीषणाभ्युन्नतकुम्भकर्णमुख्यैः, महानागबलैर्महानागतुल्यबलैः, युतेन युक्तेन, पराक्रमेण शत्र्वाक्रमणकर्ता, उद्धतेन गर्वपर्वताधिरूढेन, हरिणेक्षणेन मृगचक्षुषा, इन्द्रजिता प्रत्यभ्युदीये प्रत्यभ्युत्थितम् ॥ भारतीये-विभीषणानि अभ्युन्नतास्तुङ्गाः कुम्भाः कर्णाः मुखानि येषां तानि तैर्विभीषणाभ्युनतकुम्भकर्णमुख्यैः (बहुव्रीयुत्तरं शाखादित्वात्स्वार्थे यः) महानागबलैर्गजेन्द्रसैन्यैर्युतेन, पराक्रमेण प्रतापत इन्द्रजिता, उद्धतेन हरिणा नारायणेन ईक्षणेन अवलोकनेन प्रत्यभ्युदीये ॥ श्लेषः ॥ उपजातिः ॥ अत्र स्नुताधिकमनोजवधूतमालपत्रप्रयुक्तकुसुमाञ्जलिसिक्तमूर्तिः । अत्रस्नुताधिकमनोजवधूतमालमाल्येन तेन सहितः स्वगृहं विवेश ॥ १२ ॥ अत्रेति ॥ अत्र अवसरे स्नुताधिकमनोजवधूतमालपत्रप्रयुक्तकुसुमाञ्जलिसिक्तमूर्तिः
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy