SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ८ सर्गः] द्विसंधानम् । आकृष्येति ॥ काचित् नवोढा वरित्रा वरेण विधृतं गृहीतं हस्तं आकृष्य मोचयित्वा सहसा शीघ्रं अभ्ययासीत् । अन्या प्रोषितभरीका प्रियानुबद्धं पटं हित्वा त्यक्त्वा । आलिखन्ती सती अगमत् ॥ उपजातिः ॥ उन्मील्य रूपं सह सामि ताभिस्तत्तूलिकाभिः सहसा मिताभिः । वर्णोत्करैश्चित्रकरः स्मयातिक्रान्तोऽखिलश्चित्रकरः स्म याति ॥ ४४ ॥ उन्मील्येति ॥ चित्रकर आश्चर्यकृत् स्मयातिक्रान्तो गर्वपर्वताधिरूढः, अखिलः समस्तः चित्रकरश्चित्रशिल्पकरः, मिताभिः स्तोकाभिः तूलिकाभिश्चित्रलेखनिकाभिर्वर्णोकरैहिङ्गलहरितालिकादिभिः सामि अर्ध रूपम् उन्मील्य ताभिर्लेखनिकाभिः सहैव याति स्म ॥ अत्र कौतुकरसरसिकतया विमनस्कत्वमभिहितम् ॥ इन्द्रवज्रा ॥ वक्रोक्तिमुत्प्रेक्षणमङ्गबन्धं श्लेषं सरन्कृत्यबलातिमूढः । द्विसंधिचिन्ताकुलितो विषण्णः कविर्वियोगीव जनोऽभ्यसर्पत् ॥४५॥ वक्रोक्तीति ॥ वक्रोक्तिम् उत्प्रेक्षणमुत्प्रेक्षाम् अलंकारम् , अङ्गबन्धं पद्मादिषन्धम् , श्लेषं शब्दश्लेषमर्थश्लेषं चालंकारं स्मरन्, कृत्यबलातिमढः कार्यसामर्थ्यानभिज्ञः, द्विसंधिचिन्ताकुलितो द्वयोः कथयोः पदयोर्वा संधेः संधानस्य चिन्तया आकुलितः, अतएव, विषण्णो विमनस्कः कविर्जनः । वक्रोक्तिं कुटिलवचनम् , उत्प्रेक्षणं रमणीरमणीयकटाक्षम् , अङ्गबन्धं चतुःषष्टिशरीरबन्धम् ऋजुविपरीतवृत्तदण्डकप्रभृतिकरणाख्यम् श्लेषमालिङ्गनं स्मरन् कृती प्रतिज्ञावान् अबलातिमूढः अनभिज्ञभार्यः द्विसंधिचिन्ताकुलितः द्वयोः स्वस्य .. भार्यायाश्च संधेः संघानस्य मेलनस्य चिन्तया आकुलितः विषण्णः वियोगी विप्रयोगी इव। अभ्यसर्पत् ॥ श्लेषः ॥ उपजातिः ॥ शालस्य हर्म्यस्य च गोपुरस्य पुरस्य शृङ्गेष्वतिरञ्जनेन । जनेन दृष्टयै निचितेन पूर्वापूर्वाधिरूढासुमतां छलेन ॥ १६ ॥ शालस्येति ॥ दृष्टयै राज्ञो दर्शनाय पुरस्य नगरसंबन्धिनः शालस्य प्राकारस्य, हर्म्यस्य प्रासादस्य, शृङ्गेषु शिखरेषु निचितेन संवृतेन अतिरञ्जनेन अतिशयानुरागवता जनेन लो. केन 'असुमतां प्राणिनां छलेन अधिरूढा अपूर्वा पूरिव' (इयं नगरी) भाति स्म ॥ दिदृक्षमाणस्य जनस्य तस्मिन्कालेऽखिलानि क्षणमिन्द्रियाणि । तं नेत्रमात्रस्थितिमेव जग्मुः स्वस्थाननिर्वेदमिवागतानि ॥ ४७ ॥ दिदृक्षेति ॥ तं राजानं दिदृक्षमाणस्य द्रष्टुमिच्छोर्जनस्याखिलानीन्द्रियाणि स्वस्थान. . निर्वदमात्मीयवसतिखेदमागतानीव तस्मिन्काले क्षणं नेत्रमात्रस्थितिमेव जग्मुः॥ उत्प्रेक्षा॥ स धृतव्यजनेन जनेन पुरं परमङ्गलमङ्गलघोषकृता । नगरीमभिरञ्जयता जयतादितिवाक्यविभागमितो गमितः ॥ ४८ ॥
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy