SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ काव्यमाला । श्लथामिति ॥ परा कामिनी द्विरेफाकुलपुष्पभारं भ्रमरैर्व्याप्तः पुष्पभारो यत्र तं श्लथं शिथिलं चिहुरं केशजालम् करेण रुद्धा व्रजन्ती मदनेन मुक्तान् शरान् पुङ्खानुपुङ्ख पिच्छानुपिच्छं यथा भवेत्तथा उत्पाटयन्ती इव भवेत् ॥ अन्यात्मदर्शे मुखमीक्षमाणा तथैव हस्तेन तमुद्वहन्ती। किं मे मुखं रम्यमुतेन्दुरेवं तं स्पर्धया दर्शयितुं गतेव ॥ ३८ ॥ अन्येति ॥ तथैव अन्या कामिनी किं मे मुखं रम्यम् उत इन्दुः, एवं स्पर्धया मुखम् आत्मदर्श मुकुरुन्दे दर्पणे ईक्षमाणा हस्तेन तमात्मदर्शम् उद्वहन्ती सती तं राजानं दर्शयितुं साक्षीकर्तुम् इव गता प्राप्ता ॥ महानिवेशं कुचभारमेका धृत्वा कराभ्यां त्वरितं जिहाना । । उपर्युपर्युच्छ्रसिता नताङ्गी शून्यं तरन्तीव घटद्वयेन ॥ ३९ ॥ महानिवेशमिति ॥ एका नताङ्गी कामिनी, महानिवेशं घनपीनोन्नतस्थितिमन्तम् , कुचभारं कराभ्यां धृत्वा त्वरितं जिहाना गच्छन्ती सती घटद्वयेन शून्यमाकाशं तरन्ती इव उपर्युपरि उच्चसिता ॥ विधूय लीलाम्बुजमुत्पलाशं निघ्नन्नलिं कर्णगमुत्पलाशम् । भ्रेजेऽङ्गनौघः सुरयो निजेन हावेन गच्छन्सुरयोनिजेन ॥ ४० ॥ विधूयेति ॥ सुरयोऽतिवेगवान् , अङ्गनौघः कामिनीसमुदायः, गच्छन् , उत्पलाशमुद्गतदलं व्याकोशम् , लीलाम्बुजं क्रीडाकमलम् , विधूय कम्पयित्वा कर्णगं श्रवणे गच्छन्तम्. उत्पलाशं कमलस्पृहम् , अलि निघ्नन बारयंश्च सन्, निजेन आत्मीयेन सुरयोनिजेन अमरसंभवेन हावेन श्रेजे ॥ दष्टाधरं तिष्ठतु संप्रहारः कस्याश्चिदास्तां कटकोपवेशः । सर्वान्वजन्त्यास्त्वरितं भुजस्य विक्षेपमात्रं विवशीचकार ॥ ४१ ॥ दष्टेति ॥ संप्रहारः परस्परताडनं दष्टाधरं यथा भवेत्तथा तिष्ठतु, कटकोपवेशोऽव्यक्तकंकणरवः आस्ताम् , त्वरितं व्रजन्त्याः कस्याश्चिद् भुजस्य विक्षेपमात्रमन्दोलनमात्रं सर्वान् विवशीचकार ॥ इन्द्रवज्रावृत्तम् ॥ अंसान्तविश्रान्तकुचान्तचक्रमाश्लिष्य कान्तेन तमर्धपीतम् । बिम्बौष्ठमाक्षिप्य निमीलिताक्षं सीत्कारपूर्व कुलटाभ्यधावत् ॥ ४२ ॥ अंसान्तेति ॥ कान्तेन प्रियेण अंसान्तविश्रान्तकुचान्तचक्रं स्कन्धमध्योपविष्टस्तनचूचुकं यथा स्यात्तथा आश्लिष्य आलिङ्गय निमीलिताक्षं यथा स्यात्तथा अर्धपीतं तं बिम्बोष्ठं सीत्कारपूर्व यथा स्यात्तथा आक्षिप्य आकृष्य (प्रियमुखान्मोचयित्वा) कुलटा अभ्यधावत्॥ आकृष्य हस्तं विधृतं वरित्रा काचिन्नवोढा सहसाभ्ययासीत् । प्रियानुबद्धं पटमालिखन्ती हित्वागमलोषितभर्तृकान्या ॥ ४३ ॥
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy