SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ < सर्गः] द्विसंधानम् । __ मङ्गलेति ॥ मृदुगलः कलकण्ठः, उदारः औदार्यगुणोपेतः, सहसुतदारः सुतैर्दारैश्च सहितः कोऽपि लोकः अनृशंसमघातुकम् , परमनृशंसं परमेषु उत्कृष्टेषु नृषु शंसा स्तु. तिर्यस्य तं (कर्मधारयेन विरोधः) अतिस्थिरं निःक्षोभप्रकृतिं त्वाम् अभिया निःशङ्कतया मङ्गलयुक्त्याः कल्याणघटनायाः, उक्त्या निर्वचनेन, अभियाति संमुखमायाति ॥ इत्यर्जुनोक्तां मनसा प्रसन्नः स्वसुः स्थिराभिः प्रतिमान्यवाग्भिः । राजा पुरं प्रापदरातिचारविद्रावणो धर्मकृतोद्भवस्ताम् ॥ ३४ ॥ इत्येति ॥ अर्जुना आ समन्तादृजुना मनसा प्रसन्नः अरातिचारविद् शत्रुचेष्टोपायज्ञाता धर्मकृतोद्भवः पुण्यविनाशायोत्पन्नः, रावणो राजा इति एवमुक्ताभिः स्थिराभिः विचारसहाभिः, स्वसुर्भगिन्याः शूर्पणखायाः प्रतिमान्यवाग्भिः प्रशस्यवचनैः, उक्तां तां पुरं लङ्कां प्रापत् ॥ भारतीये-मनसा प्रसन्नः, स्वसुः शोभनप्राणः, अरातिचारविद्रावणो वैरिचेष्टोपायविनाशकः, धर्मावतारो युधिष्ठिरः प्रतिमान्यवाग्भिः अर्जुनोक्ताम् अर्जुनेनोक्तामुपदिष्टाम् ॥ श्लेषः ॥ उपजातिः ॥ . मनोभिरामप्रमदां विशन्ती क्षणं निशायोपवने सुदृष्टिम् । । उत्कण्ठभावं गमितोनतात्मा प्रचक्रमेऽभ्यन्तरमेव गन्तुम् ॥ ३५ ॥ मनोभिरामेति ॥ अनतात्मा अजितेन्द्रियः (रावणः) उत्कण्ठभावमौत्सुक्यं गमितः प्रापितः सन् सुदृष्टिं चक्षुरिन्द्रियं मनः अभिलक्षीकृत्य क्षणं विशन्तीम् बहिरव्यापारितनेत्राम् रामप्रमदाम् सीताम् उपवने निशाय संनिवेश्य अभ्यन्तरं नगरमध्यम् एव गन्तुं प्रचक्रमे ॥ भारतीये-नतात्मा जितेन्द्रियः सविनयमूर्तिर्वा, उत्कण्ठभावमूर्ध्वग्रीवत्वम् , अभिरामप्रमदामभिरामस्य अर्जुनस्य प्रमदां द्रौपदी मनोज्ञसुन्दरी वा, यद्वा मनः सुदृष्टिं च उपवनं विशन्तीम् (प्रकरणादध्याहारः) ॥ विदेहसंकल्पजसंभवायाः प्रीतेस्तदालोकसमुत्सुकाभिः । द्रागित्यभीये पुरसुन्दरीभिः सरोदसीतापहृतौ कृतार्थः ॥ ३६ ॥ विदेहेति ॥ विदेहसंकल्पजसंभवाया जनकपुत्रीसंबन्धिन्याः प्रीतेहेतोः तदालोकसमुत्सुकाभिर्जनकात्मजादर्शनोत्कण्ठिताभिः पुरसुन्दरीभिर्लङ्काकामिनीभिः सरोदसीतापहृतौ रुदजानकीहरणे, कृतार्थः कृतकृत्यः (रावणः) द्राक् शीघ्रम् अभीये अभिगतः ॥ भारतीये-विदेहसंकल्पजसंभवायाः विदेहादनङ्गात् संकल्पजात् 'जाने संकल्पतो मूलं कामं कामस्य जायते । तन्नाशादपि तन्नाशः कथ्यते मुनिपुंगवैः ॥' इत्युक्तेर्मानसविकारजातात् संभव उत्पत्तिर्यस्यास्तस्याः तदालोकः युधिष्ठिरावलोकनम् रोदसीतापहृतौ द्या. वाभूमिसंतापहरणे ॥ श्लेषः ॥ श्लथं द्विरेफाकुलपुष्पभारं रुवा वजन्ती चिहुरं करेण । पुङ्खानुपुङ्ख मदनेन मुक्तानुत्पाटयन्तीव शरान्पराभूत् ॥ ३७॥ .
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy