________________
काव्यमाला। अस्याम्बुधेर्यातनिवृत्तमार्गे पुजैः स्थिता ये मणिशुक्तिशङ्खाः। . तथा त एवार्य निवेशनेऽपि स्थिता इवान्तर्बहिरप्यमुष्याः ॥ २८ ॥
अस्येति ॥ हे आर्य, ये मणिशक्तिशङ्खाः अस्य अम्बुधः, यातनिवृत्तमार्गे गतागतपथे, पुजै राशिभिः स्थिताः । तथा ते एव मणिशक्तिशङ्खाः, निवेशनेऽपि राशिरचनायामपि स्थिताः । तथा च अमुध्या नगर्या अन्तर्मध्ये बहिर्बाह्यप्रदेशेऽपि ते स्थिता इव भा. सन्ते ॥ उपजातिः ॥
यस्याः समीपेऽम्बुनिधिनिषण्णो रत्नैः स्फुटं भोजनभाजनानि । स्त्रियश्च देवाप्सरसां सदृश्यः किं वर्ण्यतेऽस्या विभवो नगर्याः ॥२९॥
यस्या इति ॥ यनिकटे समुद्रस्थितिः यस्यां भोजनभाजनानि रत्नमयानि, स्त्रियश्चाप्सरोभिस्तुल्याः । तथा चास्या नगर्या विभवो विभूतिः किं वर्ण्यते ॥
अत्र समेता मृदुरसमेता भ्रूकुटिलास्याः स्मरकुटिलास्याः ।
भूप रमन्ते ह्यनुपरमं ते वेगमनेन व्यभिगमनेन ॥ ३० ॥ अत्रेति ॥ हे भूप, अत्र देशे समेता मिलिताः, भ्रूकुटिलास्या भ्रूभङ्गभङ्गराननाः, स्मरकुटिलास्या स्मरस्य कंदर्पस्य कुटिप॒हं लास्यं नृत्यं यासां ताः, एताः (कामिन्यः) ते तव अनेन व्यभिगमनेन संमुखागमनेन मृदुरसं मधुररसम् अनुपरममनवरतम् वेगं शीघ्रं यथा स्यात्तथा रमन्ते क्रीडन्ते ॥ अनुकूलावृत्तम् ॥
कामिपरीता मधुविपरीता भूमिप कान्ता स्फुरदलकान्ता । काप्यनुगेयं लयमनुगेयं गायति मत्ता कृतरतिमत्ता ॥ ३१ ॥ कामीति ॥ हे भूमिप, कामिपरीता कामुकावेष्टिता मधुविपरीता मद्येन विपरीता सदाचारभ्रष्टा मधुगन्धेन विभिभ्रमप्राप्ता वा स्फुरदलकान्ता दीप्यमानकेशामा मत्ता क्षीबा कृतरतिमत्ता विहितसंभोगवत्ता कापि इयं कान्ता अनुगेयं गेयस्य पश्चात् लयं द्रुतमध्यविलम्बितम् अनुगा अनुगच्छन्ती सती गायति ॥
वादयितारं प्रियदयितारं वाङ्मखरा गाहितमुखरागा। तं बहुधा तु क्रमबहुधातु क्ष्माधिप हित्वाभिपतति हि त्वा ॥ ३२ ॥ वादेति ॥ हे क्ष्माधिप, अरमत्यर्थम् वाङ्मुखरा वचनवाचाला, गाहितमुखरागा गा हितो व्यालोडितो मुखे रागस्ताम्बूलादिजनितो यया सा प्रियदयिता सस्नेहकामिनी क्रम बहुधातु क्रमेण परिपाट्या बहवो धातवो व्यञ्जनप्रभृतयो यस्मिन्वाद्यकर्मणि तत् बहुध वादयितारं तं तु हित्वा परित्यज्य हि निश्चयेन त्वा त्वाम् अभिपतति संमुखमायाति ॥
मङ्गलयुक्त्या मृदुगलयुक्त्या कोऽप्यनृशंसं परमनृशंसम् । लोक उदारः सहसुतदारस्त्वामभियातिस्थिरमभियाति ॥ ३३ ॥