SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ८९ ८ सर्गः] द्विसंधानम् । अपि तु न ॥ यत् अयमब्धिः सत्त्वानुकम्पाभिरतः प्राणिकृपायामभिरतः । तत् ऋषिमहानियोगं मुनीनां महासेवां किं गतः । अपि तु न तस्य जडत्वात् । किंतु सत्वानां मीनादीनां कम्पनतः पश्चात् अभिरतं सामस्त्येन क्रीडनं यस्येत्यर्थः ॥ इन्द्रवज्रावृत्तम् ॥ अमुत्र मकरैः करैर्विरचिता चिता विनियतायताप्य च नमः । नभस्वदयुतायुता दिशमितामिता समहिमा हिमा जलततिः ॥ २४ ॥ अमुत्रेति ॥ अमुत्र देशे मकरैर्यादोविशेषैः करैः शुण्डादण्डैः विरचिता, चिता पुष्टा, विनियता विभिः पक्षिभिर्नियता संबद्धा, नभो वियद् आप्य आयता दीर्घा च, नभस्वदयुतायुता वातानामयुतैरा समन्ताद्युता, अमिता प्रचुरा, समहिमा माहात्म्ययुता, हिंमा शीतला, जलततिः पयःपूरः दिशम् इता व्याप्ता ॥ जलोद्धतगतिः ॥ समुन्नताम्भोजकुलाभिनन्द्यां विद्याधराणामधिवासभूमिम् । त्वं द्वारकान्तां खलु पश्यसीमां राजन्नलङ्कामहितां परेभ्यः ॥ २५ ॥ , समुन्नेति ॥ हे राजन् रावण, त्वं समुन्नताम्भोजकुलाभिनन्यां समुन्नतैर्मान्यैः अम्भोजकुलैविभीषणादिराक्षसैः प्रशस्याम् उद्दण्डकमलराजिविराजमानां वा, विद्याधराणामधिवासभूमिम् विद्याधराणां खेचराणां निवासभूमिम् , द्वारकान्तां द्वारैः कान्तां मनोहराम्, परेभ्यः शत्रुभ्योऽहिताम् इमां लङ्कां न पश्यसि किम् । पश्यस्येव ॥ भारतीये-हे राजन् युधिष्ठिर, समुन्नतां तुङ्गाम् भोजकुलाभिनन्द्यां भोजकुलेन वृष्णिकुलेनाभिनन्द्याम् । विद्याधराः शस्त्रपरिज्ञानवन्तः । परेभ्य उत्कृष्टेभ्यः अलमत्यर्थ कामहितां यथेष्टहिताम् , तामिमां द्वारकां खलु निश्चयेन पश्यसि ॥ उपजातिः ॥ कल्लोलैरिह जलधेः सुधागृहाणि व्यज्यन्ते मुरजरवा न गजितेन । नाम्भोदैः सततगतैर्गवाक्षधूपाः प्राप्तापि व्रजति न लक्ष्यतां पुरीयम् ॥२६॥ कलोलैरिति ॥ इह पुरि सुधागृहाणि जलधेः कल्लोलैः, मुरजरवा जलधेजितेन, गवाक्षधूपाः सततगतैरम्भोदैः, न व्यज्यन्ते (अतः) प्राप्तापीयं पुरी लक्ष्यतां न याति ॥ प्रहर्षिणी ॥ . धीरन्तुं गां गत्वा स यस्यामरस्य धीरं तुङ्गाङ्गत्वाच्छ्यिो वञ्चति द्याम् । रिक्तः स्वर्गेणाकारि मानोऽज्ञकेन साम्यं किं सोऽस्या याति मानोज्ञकेन॥२७॥ धीरमिति ॥ अस्या नगर्याः, गां भूमि गत्वा रन्तुं क्रीडितुं यस्यामरस्य देवस्य धीgद्धिर्भवेत् , सोऽमरः (एतस्या नगर्याः) श्रियः शोभायाः, तुङ्गाङ्गत्वात् स्फीतावयवत्वात् द्यां स्वर्ग धीरं निःक्षोभं यथा स्यात्तथा वश्चति त्यजति । (अतः) अज्ञकेन मूर्खण, स्वर्गेण, रिक्तः शून्यः, मानः, अकारि । स स्वर्गः (अस्याः पुरः) साम्यं तुल्यताम् , मानोज्ञकेन सौन्दर्येण किं याति । नैव याति ॥ वैश्वदेवीवृत्तम् ॥ १२
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy