SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। मार्गजदुःखसंतप्ता श्रीमत्सीता क्रन्दन्ती राम राम रक्ष रक्षेत्यादिविलापं कुर्वती सती वि. लुलोके ॥ भारतीये-वेलावेगात् कल्लोलरयेण का । कर्तर्यप्यपादानत्वविवक्षया पञ्चमी भानुसमीपं ह्रियमाणा (अतएव) तापक्रमतप्ता (अतएव) क्रन्दन्ती श्रीमत्सी ॥ मत्तमयूरं वृत्तम् ॥ स्थिरसमुद्रसमुद्रसकौतुकाागभुजं विनयेन नयेन च । तमुदितं मुदितं ह्यनुजोग्रवागिति विभुं निजगौ निजगौरवात् ॥ २० ॥ स्थिरसेति ॥ स्थिरसमुद्रसमुद्रसकौतुका स्थिरे समुद्रे मुद्युक्तरसजनकं मुद्रसयुक्तं वा कौतुकं यस्याः सा, उग्रवार, अनुजा शूर्पणखा, युगभुजं दिवं गतान्देवान्भुनक्ति त्रायते तम्, विभुं तं रावणं येनैव वाक्येन मुदितं (तस्य) भवेत् तद् उदितं वाक्यं विनयेन प्रश्रयेण निजगौरवात् स्वकीयमाहात्म्यात् इति वक्ष्यमाणं निजगौ अपि तु न उक्तवती । भारतीये-अग्रवाक् अनुजो भीमोऽर्जुनो वा युगभुजं युगे इव भुजे यस्य तम्, उदितमभ्युदयं गतम्, स्थिरसमुद्रसमुद्रसकौतुकात् मुदितम् , निजगौरवात् विनयेन नयेन दण्डनीत्यादिना च ॥ द्रुतविलम्बितम् ॥ सोऽयं नगर्याः परिखायमाणो वाताहतैरम्बुकणैः पयोधिः । दूरोन्नमत्पाण्डुकुलाग्र्यमुच्चैरक्षोध्वजं त्याजयति श्रमं त्वाम् ॥ २१ ॥ सोऽयमिति ॥ नगर्याः परिखायमाणः सः अयम् पयोधिः, दूरोन्नमत्पाण्डुकुलाग्र्यम् बहुकालोन्नतिप्राप्तनिर्मलवंशप्रधानम्, रक्षोध्वजं राक्षसानां ध्वजायमानम्, त्वाम् वाताहतैः अम्बुकणैः उच्चैरत्यर्थे श्रमं त्याजयति ॥ भारतीये-उच्चैरक्षः स्थूलशङ्खादिः पयोधिः दूरोन्नमत्पाण्डुकुलाग्र्यम् दीर्घोन्नतपाण्डुराजान्वयज्येष्ठम्, अध्वजं मार्गोत्पन्नं श्रमम् ॥ इन्द्रवज्रावृत्तम् ॥ अनासनक्रमकरैरयमाविलोऽलमायातिपातिविसरो जवनस्वरोऽधः । अत्रासनक्रमकरै रयमाविलोलमायाति पाति विसरोजवनस्वरोधः ॥२२॥ अत्रेति ॥ अत्र देशे, आविलः सकलुषः, आयातिपातिविसरः आयं नदीसंगमम् अतिपततीत्येवंशीलो वीनां पक्षिणां सरः समुदायो यत्र सः, अधः अधस्तात् जवनस्वरः शीघ्रघोषः, अयं सरित्पतिः, अत्रासनक्रमकरैः न त्रासो येषु तैनक्रमकरयादोभिः, आविलोलं चञ्चलम्, रयं वेगम् , (ते) आसनक्रमकरैः आसनक्रममतिथिसत्कारं कुर्वद्भिरेव (हेतुभिः) आयाति । विसरोजवनखरोधः विभिरुपलक्षितसरोजवनवत्स्वीयरोधः पाति र. क्षति ॥ अर्धसमयमकम् ॥ वसन्ततिलकावृत्तम् ॥ यद्वातकी यहलिभस्तरङ्गी तत्कि गतो वर्षिमहानियोगम् । सत्त्वानुकम्पाभिरतो यदब्धिस्तत्कि गतो वर्षिमहानियोगम् ।। २३ ।। यदिति ॥ यत् यस्मात् वातकी वाताक्रान्तः बलिभः त्वक्संकोचाक्रान्तः, तरङ्गी तरङ्गाकान्तः अस्ति । तत् अयमब्धिः वर्षिमहानियोगं वार्द्धक्येनापचयसंबन्धं किं गतः ।
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy