________________
८७
.
८ सर्गः]
द्विसंधानम् । वेगविति ॥ प्रतिदिशम् आपूर्णानां संभृतानां, हिमकरविध्वस्तानां शिशिरकरचन्द्रायोत्क्षिप्तानाम् (चन्द्रोदयो ह्युदधिवृद्धये) मकरविध्वस्तानां मकरैविध्वस्तानाम् एषां वेलौघानां कल्लोलसमूहानाम्, वेगो रयः अस्मिन्स्थाने प्रतिनिशं आलोकान्तं सूर्योदयावधि, यथा स्यात्तथा आलोकान्तं चक्षुर्विषयताम् अत्येति अतिक्रामति ॥ जलधरमाला ॥
खं मलमान्तरङ्गमखिलं सलिलधिरधिकं
तत्तिमिराशियोगदलितं यतिरिव परितः। आवरणात्मकं मुहुरयं बहिरभिनुदति
प्रायश ईदृशी हि महतां गतिरतिविमला ॥ १६ ॥ स्वं मलेति ॥ अयं सलिलधिः समुद्रः स्वमात्मीयम्, आन्तरङ्गं मध्यगतम्, अखिलं समस्तं तिमिराशियोगदलितं मीनसमूहसंबन्धविध्वस्तम्, आवरणात्मकं जनझम्पनरूपं तन् मलम् । यतिः आन्तरङ्गमात्मप्रदेशानुविद्धम्, तिमिराशियोगदलितं पापाज्ञानभक्षणशीलचित्तवचनकायनिरोधनाशितम्, आवरणात्मकं ज्ञानव्यक्तिप्रच्छादनरूपम्, अखिलं मलं पापम् इव । अधिकं यथा स्यात्तथा मुहुर्वारंवारं परितः सामस्त्येन बहिः अभिनुदति उत्क्षिपति ॥ हि यतः महतां प्रायश ईदृशी अतिविमला गतिर्भवति ॥ अर्थान्तरन्यासः॥ वेशपत्रपतितं वृत्तम् ॥
उद्विन्दूनां मुहुरनुबद्धं वीच्या वात्यासारं प्रशमि तता पारम्यम् । फेनालीनां छिमितिकरोत्येतस्मिन्वात्या सारं प्रशमिततापा रम्यम्॥१७॥
(अन्त्यपादयमकम्) उद्विन्दूनामिति ॥ एतस्मिन्प्रदेशे तता विस्तृता प्रशमिततापा नाशितसंतापा सा वात्या वातमण्डली वात्या विजृम्भमाणया वीच्या तरङ्गेणानुबद्धम् रम्य मनोहरम्, उद्विन्दूनां बुदुदवतीनां फेनालीनां पारम्यं शोभाम् अरमत्यर्थम् , असारं शीघ्र छिमितिकरोति विनाशयति ॥ जलधरमाला ॥
अन्वेति रत्नोल्लसितेन्द्रचापः कल्लोलमेघः सकदम्बकेन । नभवता शङ्खचलहलाकः क्षोभं गतः प्रावृषमम्बुराशिः ॥ १८ ॥
अन्वेतीति ॥ रत्नोल्लसितेन्द्रचापः, कल्लोलमेघः, शङ्खचलद्वलाकः, अम्बुराशिः समुद्रः सकदम्बकेन सवृक्षविशेषकुसुमेन ससमूहेन वा क्षोभं गतः सन् प्रावृषं वर्षामन्वेत्यनुकरोति ॥ अनुकार्यानुकारकयोरुपमावधारणगर्भसमासेन सादृश्यम् ।। उपजातिः ॥
इत्थं तेन व्यापृतनेत्रेण पयोधौ वेलावेगाद्भानुसमीपं द्वियमाणा । क्रन्दन्त्यन्तःस्नेहकृपाई परिवृत्य श्रीमत्सीतापक्रमतप्ता विलुलोके॥१९॥ इत्थमिति ॥ इत्थं पयोधौ व्यापृतनेत्रेण तेन रावणेन स्नेहकृपाम् अन्तश्चेतः परिवृत्य वेलावेगात् अन्तर्मुहूर्तसमयात् भानुसमीपं ह्रियमाणा नीयमाना, अपक्रमतप्ता अन्याय