________________
८६
काव्यमाला |
नीलनीलान् प्रदेशान् नीलाभ्राणां शङ्कया अध्यासीना निश्चला बलाका बक्यो भान्ति ॥ शालिनी ॥
एषामुष्मिन्विलसति मुक्ताशुक्तिर्मुक्ता शुक्तिः प्रसवनिरोधस्यालम् । रोधस्यालम्बितफलवामाश्वासैर्वामाश्वासैः सपदि यथोद्बोधेन ॥ ११ ॥
(शृङ्खला)
एषेति । अमुष्मन्देशे एषा मुक्ताशुक्तिः (यस्यां मुक्ताफलानि प्रसूयन्ते तत्पुटम् ) विलसति । यथा उद्बोधेन मुखविकसनेन आलम्बितफलवामाश्वासैः आलम्बितः फलानां वामेन उद्भिरणेन आशु शीघ्रम् आसः क्षेपणं यैस्तैः, वामाश्वासैर्निःसरणवायुभिः सपदि सह प्रसवनिरोधस्य प्रसूतिप्रतिबन्धस्य शुक्तिः शोको रोधसि कूले अलमत्यर्थ मुक्ता ॥ चक्रवालयमकम् || जलधरमाला ॥
गोखुराहत इवायमेकतो वर्तिकाभिरिव वर्तितोऽन्यतः ।
मेघविभ्रम इवाम्बुधिः क्वचित्संकुलः स कुलपर्वतैरिव ॥ १२ ॥
गोखुरेति ॥ अयम् अम्बुधिः एकत एकस्मिन्स्थाने गोखुराहतो गवां खुरैराहत इव, अन्यतोऽन्यस्मिन्स्थाने (शिल्पिभिः) वर्तिकाभिश्चित्रलेखनिकाभिः वर्तितो लिखित इव, क्वचित् मेघविभ्रमो जलदोदयसंशय इव, क्वचित् कुलपर्वतैः संकुल इव भाति ॥ रथोद्धता ॥ उद्युक्तानामुदधिमहत्त्वस्तुत्या युक्त्यैतस्मिन्ननु गुणभारत्यागः । स्थाने स्थाने भवति कवीनां कुर्वत्युक्त्यै तस्मिन्ननुगुणभारत्यागः ॥ १३॥ (अन्त्यपादयमकम् )
उद्युक्तेति ॥ ननु अहो उदधिमहत्त्वस्तुत्याः समुद्रगारिमवर्णनाया युक्त्या विचारणेन उयुक्तानां कवीनाम् उक्त्यै निर्वचनाय अनुगुणभारत्यागः अनुगुणसरस्वतीदोषम् कुर्वति • स्थाने स्थाने गुणभारत्यागः गुणानां यथोक्तशास्त्रोपदेशपरिज्ञानादिलक्षणानां भारस्य त्यागः भवति ॥ जलधरमाला ॥
किं मर्यादामेष जलात्मा परिवारो लोलो भिन्द्यादित्युपपश्यन्निव कूलम् । गत्वा गत्वावृत्तिमुदन्वान्भजतेऽयं न प्रत्येति स्वाम्यनुवर्ग प्रतिकूलम् ॥ १४ ॥
किमिति ॥ अयम् उदन्वान् 'एष जलात्मा जलरूपः परिवारः, लोलश्चञ्चलः सन् मर्यादां किं भिन्द्यात्' इति उपपश्यन्निव कूलं रोधो गत्वा गत्वा आवृत्तिं भजते ॥ स्वामी प्रतिकूलं प्रतिकूलगामिनम् अनुचरं न प्रत्येति ॥ मत्तमयूरं वृत्तम् ॥
वेगोऽत्येति प्रतिदिशमापूर्णानामालोकान्तं हिमकर विध्वस्तानाम् । वेलौघानां प्रतिनिशमस्मिन्नेषामालोकान्तं हि मकरविध्वस्तानाम् ॥ १५ ॥
(अन्त्यपादयमकम् )