________________
८ सर्गः ]
द्विसंधानम् ।
परिहतैरिह तैः कृतबुद्बुदैः समकरैर्मकरैरुदधेर्जलैः ।
उपरुषा परुषा नयनावलिः समुदिता मुदितानुकृताकुलैः ॥ १ ॥ परीति ॥ इह देशे तैरतिरौद्रतया लोकप्रसिद्धैः समकरैस्तुल्यशुण्डादण्डैः, आकुलैः, मकरैः कर्तृभिः परिहृतैरुदधेर्जलैः कर्तृभिरुपरुषा आसन्नकोपेन परुषा निष्ठुरा समुदिता मिलिता अनूना वा मुदिता हृष्टा नयनावलिश्चक्षुःश्रेणिरनुकृता ॥
कल्लोलाः सपदि समुद्धृता मरुद्भिर्गण्डूषा इव करियादसां विभान्ति । और्वाग्निज्वलनशिखाकलापशङ्कामेतस्मिन्विदधति पद्मरागभासः ॥ ६ ॥
कल्लोला इति ॥ मरुद्भिः समुद्धृताः कल्लोलाः करियादसां जलगजजलजन्तूनां गण्डूषा इव शीघ्रं विभान्ति ॥ एतस्मिन् पद्मरागभास और्वाग्निज्वलनशिखाकलापशङ्कां वडवानलज्वलनज्वालासमूहभ्रान्ति विदधति जनयन्ति ॥ प्रहर्षिणी ॥
८५
भान्त्येतस्मिन्मणिकृतरङ्गाभोगास्तत्सारूप्यान्निहततरङ्गा भोगाः । क्रीडास्थाने रुचिरमहीनामुच्चैरुद्वान्तानां सुचिरमहीनामुच्चैः ॥ ७ ॥
भान्त्येतेति । एतस्मिन्प्रदेशे रुचिरमहीनां दीप्रावनीनाम्, उच्चैरत्यर्थे सुचिरं दीर्घकालं यथा स्यात्तथा उद्वान्तानामुपर्युपरि चटताम्, अहीनां सर्पाणां मणिकृतरङ्गाभोगा रत्नरञ्जितफणास्तत्सारूप्यात् सर्पसादृश्यात् निहततरङ्गा विध्वस्तवीचयो, भोगाः काया उच्चैरत्यर्थं भान्ति ॥ जलधरमालावृत्तम् ॥
आपातुं जलमिदमिन्द्रनीलजालव्याजेन व्यवतरतीव मेघजालम् ।
वक्षोभिः करीमकरैर्विभिन्नमम्भो यात्युद्यन्मणिरुचि शक्रचापभावान् ॥८॥ आपातुमिति । इदं मेघजालम् इन्द्रनीलजालव्याजेन जलमापातुं व्यवतरतीव । तथा .करिमकरैर्वक्षोभिर्विभिन्नम् उद्यन्मणिरुचि उद्यती मणीनामिव रुचिर्यस्य तत्, अम्भः शक्रचापभावान् याति ॥ प्रहर्षिणीवृत्तम् ॥ एतान्प्रवालविटपान्स्वतटीभिरूढान्रूढान्निषिञ्चति हतैरुदधिस्तरङ्गैः । रङ्गैरिहाम्बुकरिणां निकटे वसन्तं सन्तं न सत्त्वसहिता ह्यवधीरयन्ति ॥९॥ (शृङ्खला) एतानिति । उदधिः स्वतटीभिः ऊढान्, रूढान् समुत्पन्नान् एतान् प्रवालविटपान् विद्रुमवृक्षान् अम्बुकरिणां रङ्गैर्गतिभिः हतैः, तरङ्गैः इह निषिञ्चति ॥ हि यतः सत्त्वस - हिताः जना निकटे वसन्तं सन्तं न अवधीरयन्ति । अर्थान्तरन्यासः । वसन्ततिलकम् ॥ अध्यासीना निश्चला निस्तरङ्गानेतानेता नीलनीलान्प्रदेशान् ।
नीलाभ्राणां शङ्कया किं बलाका नो शङ्खानां पतयस्ता विभान्ति ॥ १०॥ अध्यासीति ॥ ताः शङ्खानां पतयो नो विभान्ति । किं तु एता निस्तरङ्गान् एतान्