SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ८४ काव्यमाला। एकदिग्व्यापिका कीर्तिः सर्वदिग्व्यापकं यशः॥' इत्युक्तलक्षणेन यशसोपलक्षिते धनंजये परं तत्परम् । विद्याधृतां विद्यावतां नायकं युधिष्ठिरम् ॥ शार्दूलविक्रीडितं छन्दः ॥ इति श्रीदाधीचजातिकुद्दालोपनामकश्रीच्छोटीलालात्मजश्रीबदरीनाथविरचितायां द्विसंधानकाव्यटीकायां सीताहरणलङ्काद्वारवतीप्रस्थानकथनो नाम सप्तमः सर्गः । अष्टमः सर्गः। अथ कदानुवशा नु परासुता पुरमुपेत्य सदुर्जनकस्य वा । क्रियत इत्ययमाकुलमानसः प्रभुरवोचत वीक्ष्य पयोनिधिम् ॥ १ ॥ अथेति ॥ अथानन्तरं, प्रभू रावणः, सदुः सीदन्त्यस्मिनिति निवासोचितम्, पुरं लकाभिधेयम्, उपेत्य 'नु अहो परा सर्वरमण्युत्कृष्टा जनकस्य राज्ञः सुता सीता कदा अनुवशा आत्मवशवर्तिनी वा एव मया क्रियते' इति प्रकारेण आकुलमानसः सन्, पयोनिधिं समुद्र, वीक्ष्य अवोचत ॥ भारतीये-स प्रभुर्युधिष्ठिरः 'नु अहो पुरं हस्तिनापुरम् उपेत्य दुर्जनकस्य दुर्योधनस्य परासुता मृत्युः अनुवशा आत्माधीना कदा क्रियते' इत्याकुलमानसः ॥ श्लेषः ॥ द्रुतविलम्बितं वृत्तम् ॥ अयमगाधगभीरगुरुर्गुणैरुपगतोनियतावधिरार्द्रताम् । यतिरिवाखिलसत्त्वहितवतो जलनिधिः सकलैरवलोक्यताम् ॥ २ ॥ ___ अयमिति ॥ अगाधगभीरगुरुः अगाधोऽतलस्पर्शी, गभीरो दुर्लक्ष्यः गुरुर्गरिमोपेतः । कर्मधारयः । गुणैरार्द्रतामुपगतः, अनियतावधिरनिश्चितमर्यादः, अखिलसत्त्वहितव्रतो निखिलप्राणिभ्यो हितं व्रतं यस्य सोऽयं जलनिधिः । अगाधगभीरगुरुः अनुपमगाम्भीर्यश्चासौ गुरुः संसारसमुद्रतरणे पोतायमानं धर्म गृणाति स च, आर्द्रतां दयालुतामुपगतः, सकलैर्गुणैः नियतावधिनिश्चितमर्यादः, यतिरिव । सकलैरवलोक्यताम् ॥ असुतरां सुतरां स्थितिमुन्नतामसुमतां सुमतां महतां वहन् । उरुचितैरुचितैर्मणिराशिभिः स्वरुचि तै रुचितैरवभात्ययम् ॥ ३ ॥ असुतेति ॥ असुतरां तरीतुमशक्यामुन्नतामुत्तुङ्गां महतां सत्पुरुषाणामसुमतां प्राणिनां सुमतामिष्टां स्थिति सुतरां स्वभावेन वहन् अयं जलधिसुरुचितैरुच्चैः संहतैः रुचितैर्दीप्तैरुचितैर्नरेन्द्रमुकुटकोटियोग्यस्तैर्लोकोत्तरैर्मणिराशिभी रत्नश्रेणिभिः स्वरुचि स्वाभाविकका. न्ति यथा स्यात्तथावभाति ॥ अनिधनेन रसातलवासिना विगलितो निबिडं वडवाग्निना । इह मुहुः शफरीपरिलङ्घनव्यतिकरात्क्वथतीव सरित्पतिः ॥ ४ ॥ अनिधनेनेति ॥ सरित्पतिः अनश्वरेण रसातलवासिना वडवानलेन निबिडं विगलितः सन् इह देशे शफरीपरिलङ्घनव्यतिकरात् मुहुः कथतीव ॥ उत्प्रेक्षा ।
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy