________________
७ सर्गः ]
द्विसंधानम् ।
८३
स्वपद व्यवसायाय स्वपदव्या अवसायाय नाशाय दूरं यथा स्यात्तथा जहे हृतवान् ॥ भा० रतीये – इदम् अन्यद् रम्यपदार्थजातं कलयन् पश्यन् कामादिषु अरिषडुर्गेषु संनिपातिना संनद्धेन, निरोधेन रोधनेन जितात्मा यन्त्रितात्मा, अरीणां शत्रूणां गोचरं गतम् (अपि) अवन्यायपथं न धीप्सन्, मदनाशाधिकोद्योग : मदस्य गर्वस्य नाशाय अधिक उद्योगो यस्य सः, मायावेषेण कौटिल्याकारेण यः अजितः कापटिकद्यूतेन यो जित इति वा, गाढाकल्पकनिष्ठत्वं दृढालंकारतत्परताम् दृढाजन्मलघुतां वा कुर्वन् स युधिष्ठिरः, तां तीव्रतां स्वपद व्यवसायाय स्वपदनिश्चयाय जहे ॥ श्लेषः ॥
विहायसारमुद्वेगं गच्छता ज्वलतामुना ।
साक्षालक्ष्मीः कृतौत्सुक्यं नीता सज्जानकीदृशी ॥ ९३ ॥
विहायेति ॥ अरम् उद्वेगं गच्छता, ज्वलता कामाग्निदह्यमानेन अमुना रावणेन विहायसा गगनपथेन साक्षात् परमार्थवृत्त्या लक्ष्मीः ईदृशी पतिव्रता सजानकी सती जानकी कृतौत्सुक्यं विहितराभस्यं यथा स्यात्तथा नीता ॥ भारतीये – ज्वलता द्यूतव्यसनवह्निना दह्यमानेन श्रमोत्पन्नसंतापसंतप्यमानेन वा गच्छता मार्गे विहरमाणेन अमुना सारं घनमू उद्वेगं विहाय कीदृशी सज्जा औत्सुक्यं नीता प्राप्ता लक्ष्मीर्न साक्षात् आत्मसात् कृता ॥ श्लेषः ॥
आलिङ्गन्निव वेलाभिः स्वागतं व्याहरन्निव ।
गर्जेरूर्जस्वलस्तेन क्रमेण ददृशेऽम्बुधिः ॥ ९४ ॥
आलिङ्गन्निति ॥ तेन रावणेन युधिष्ठिरेण च गजैः कल्लोलकोलाहलैः स्वागतं व्याहरनिव वेलाभिरालिङ्गन्निव ऊर्जस्वलो बलिष्ठः अम्बुधिः समुद्रः क्रमेण गतप्रत्यागतेन ददृशे दृष्टः ॥
'शीतोऽम्भःकरिणां लवङ्गकवलोद्वारस्य गन्धं वहन्वातस्तालवनान्तरेषु परुषं हस्तैर्विवानाहतः ।
युद्धस्पर्धिपरिश्रमेण तिमिभिः सीत्कृत्य पीतोऽम्बुधे
राश्लिष्यत्स यशोधनंजयपरं विद्याघृतां नायकम् ॥ ९९ ॥ इति श्रीधनंजयकविविरचिते धनंजयाङ्के द्विसंधानकाव्ये राघवपाण्डवीयापरनाम्नि सीताहरणलङ्काद्वारवतीप्रस्थानकथनो नाम सप्तमः सर्गः समाप्तः ।
शीतविति ॥ शीतः शीतलः, अम्भःकरिणां जलगजानां तालवनान्तरेषु परुषं विवान् विचरन्, तिमिभिर्मत्स्यविशेषैर्हस्तैः आहतः युद्धस्पर्धिपरिश्रमेण युद्धस्पर्धिना परिश्र मेण सीत्कृत्य पूर्व हस्तैः पीतः ततो लवङ्गकवलोद्वारस्य गन्धं वहन् सः अम्बुधेः वातः यशोधनं जयपरं जयं पिपति तम् विद्याघृतां विद्याधराणां नायकं रावणम् आश्लिष्यत् आलिङ्गति स्म ॥ भारतीये – यशोधनंजय परं 'प्रतापो यस्य वार्तापि राज्ञां स्याद्भयकारिणी ।