________________
८२
काव्यमाला |
यदीति ॥ रम्या मनोहरा, अवनलता न वनलता अपूर्ववल्ली वनवासायोग्या लता । उद्यानलताक्लेशैः उद्यानलतायै क्लेशैरालवालादिकरणक्लेशैः ॥
एनां घनकुचोच्छ्रायव्यवधानात्तनूदरम् ।
अपश्यन्तीमपश्यन्तस्तेऽद्याप्युदरशायिनः ॥ ८७ ॥
एनामिति ॥ घनकुचौच्छ्रायव्यवधानात् पीनोन्नतस्तनोच्छ्रायान्तर्धानात् तनूदरं सूक्ष्ममुदरम् अपश्यन्तीम् एनां सीतां गोपालिकां वा अपश्यन्तस्ते अद्यापि उदरशायिनो गर्भस्था एव वर्तन्ते । तैः किमपि न दृष्टमिति भावः ॥
1
गतेन राजहंसीयमस्मद्दर्शनविह्वला ।
पश्य भाति विलोलाक्षी किंचिच्चकितमानसा ॥ ८८ ॥
गतेनेति ॥ अस्मद्दर्शनविह्वला अस्माकं दर्शनेन विङ्खला, विलोलाक्षी चञ्चललोचना, किंचिच्चकितमानसा किंचिच्चकितं मानसं यस्याः सा इयं सीता गोपालिका वा गतेन गमनेन राजहंसी भाति (इति) त्वं शूर्पणखा भीमोऽर्जुनो वा पश्य ॥
एषा कटाक्षपातेन सारङ्गीलोललोचना ।
वने दिशि दिशि भ्रान्ता दीर्घमन्वीक्षते पतिम् ॥ ८९ ॥
एषेति ॥ सारङ्गीलोललोचना सारङ्गया इव लोले लोचने यस्याः सा सीता ॥ भारतीये —— लोललोचना चञ्चलाक्षी सारङ्गी हरिणी ॥ श्लेषः ॥ इदमन्यच्च कलयन्कौतुकाविष्टमानसः ।
कामादिषु निरोधेन जितात्मा सन्निपातिना ॥ ९० ॥ अवन्यायपथं धीप्सन्नारीणां गोचरं गतम् । मदनाशाधिकोद्योगो मायावेषेण योजितः ॥ ९१ ॥ गाढाकल्पकनिष्ठत्वं दूरं कुर्वैश्छलेन ताम् । स्वपद व्यवसायाय क्षिप्रं जहे सतीत्रताम् ॥ ९२ ॥
(त्रिभिर्विशेषकम् )
इदमेति ॥ इदमुक्तप्रकारम् अन्यत् कामान्धतया युक्तायुक्त विचारमन्तरेण पररमणीसङ्गं च कलयन् निश्चिन्वन्, कौतुकाविष्टमानसः कुतूहलारोपितमानसः कामात् संनिपातिना सम्यङ्गिपतनशीलेन इषुनिरोधेन बाणनियन्त्रणेन कर्त्रा जितात्मा जित आत्मसात्कृत आत्मा यस्य सः, नारीणां कामिनीनां गोचरं विषयं गतं प्राप्तम् अवन्यायपथम् अनीतिमार्ग धीप्सन् वाञ्छन्, मदनाशाधिकोद्योगः मदने कंदर्पे आशया अधिक उद्योगो यस्य सः, मायावेषेण कपटयतिरूपेण योजितः, गाढाकल्पकनिष्ठत्वं गाढे ती आकल्पके कामे निष्ठत्वं तत्परत्वं कुर्वन् (रावणः ) सतीव्रतां पतिव्रतां तां सीतां छलेन क्षिप्रं शीघ्रं