________________
७ सर्गः]
द्विसंधानम् ।
भया च पल्लवितां भूषितां सपर्णा वनराजी कान्तारश्रेणिम् इव, दृष्टया लोचनाभ्यां नीलो. त्पलमयीम् , स्मितैरीषद्धास्यैर्मुकुलिताम् इव, कैश्येन केशपाशेन मुक्तप्ररोहं मुक्ताः प्ररोहा यस्यां क्रियायां भवति तथा कुर्वतीम्, अलकैः कुटिलकेशैः भृङ्गीमयीम्, पदन्यासैः स्थलपद्ममयीम् इव, भ्रुवोः एव वक्रशीलाम्, कुचयोः एव कर्कशां कठोराम्, नेत्रयोः एव चंपलाम्, केशेषु कुटिलस्थितिम्, अविलिप्तकृतामोदाम् अचर्चितविहितपरिमलाम्, अपीतासवमन्थराम् अपीतमद्यमन्थराम्, अरुष्टामकुपितामपि रक्तलोलाक्षीं लोहितचञ्चललो. चनाम्, अतुष्टामहृष्टामपि विकसन्मुखी प्रसन्नवदनाम्, पूर्वप्रियात् प्रथमप्रेम्णः सकाशात् किंचिद्वाल्यं भराच्च यौवनम् अत एव न परां मूढां नापि परां प्रौढां किं तु तयोर्मध्यगतावस्थाम् । साभ्रे सपयोधरे अर्के सूर्य सति संकोचविकासान्तरावस्थां दधतीं पद्मिनीमिव । दधतीम्, लुनम्लानमृणालाभकर्णपालीसमन्नतिं पूर्वलनपश्चान्म्लानेन मृणालेन तुल्या आभा यस्यास्तादृशी कर्णपाल्योः समुन्नतिर्यस्यास्ताम्, सतीम् पक्ष्मणा चक्षुर्लोना तालवृन्तानिलेन तालपत्रवायुना इव । मुखं विघ्नन्ती वीजयन्तीम्, गोरक्षिकां रामव्यतिरेकेण गाः प्रचारितानीन्द्रियाणि वाणी वा रक्षति रुणद्धि तादृशीं पतिव्रताम् इमां सीतां स्रष्टुं वि. धोश्चन्द्रस्य रम्यं मनोहरम् अर्ध हृतमपनीतम् ॥ अन्यथा अर्धभागाहरणे चन्द्रः अर्धत्वं खण्डितत्वं कथम् ईयिवान् प्राप्तवान् ॥भारतीयपक्षे-गोरक्षिकांग्राम्यां गोपालिकाम् ॥ श्लेषोत्प्रेक्षा ॥ ... अहो रूपमहो कान्तिरहो लावण्यपाटवम् ।
अनीशमिदं रूपं न जातं न जनिष्यते ॥ ८३ ॥ अहो रूपमिति ॥ अनीदृशमुपमातीतम् ॥ सीताया गोपालिकाया वा ॥
तस्यानूनमिति श्रुत्वा स्वसुः स्थानोचितं वचः ।
तत्तु पश्यन्नृपः कृच्छ्रान्मनोनेत्रं न्यवीवृतत् ॥ ८४ ॥ तस्यानूनमिति ॥ नृपो रावणः तस्याः स्वसुर्भगिन्याः, इति पूर्वोदितं स्थानोचितं वचः श्रुत्वा तत् भगिनीदर्शितं वस्तु पश्यन् सन् मनोनेत्रं चित्तचक्षुःसमाहारं कृच्छात् न्यवीवृतत् निवर्तयामास ॥ भारतीये-नृपो युधिष्ठिरः, तस्य भीमस्य अर्जुनस्य वा अनूनं प्रचुरम्, खसुः शोभना असवः प्राणा यस्य, व्याधिमुक्तः युक्तायुक्तविचारज्ञो वा ॥ श्लेषः ॥
विद्याधराधिगुरुणा तां विशेषेण पश्यता ।
तेन वक्रोक्तिचतुरं युक्तं वचनमाददे ॥ ८५ ॥ विद्याधेति ॥ विद्याधराधिगुरुणा विद्याधराणां देवविशेषाणाम् अधिगुरुणा, विशेषेण असाधारण्येन तां सीतां पश्यता तेन रावणेन वक्रोक्तिचतुरं युक्तं वचनम् आददे जगृहे ॥ भारतीये-विद्याधराधिगुरुणा विद्याभिरान्वीक्षिक्यादिविद्याभिः धराधीनां धराभृतां राज्ञां गुरुणा अद्रीणां गुरुणा मेरुभूतेन वा तेन युधिष्ठिरेण । तां गोपालिकाम् ॥ श्लेषः ।
यदीदृशमिदं रूपं स्याद्वनेऽन्तःपुरेण किम् । किमुद्यानलताक्लेशै रम्यावनलतास्ति चेत् ।। ८६ ॥ ११