SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। ह्मणा अन्त्यवेधसां पाश्चात्यब्रह्मणां स्त्रियः स्रष्टुं प्रतिछन्दं प्रतिकृतिः अप्राम्या विचारचकोरचन्द्रिका इयं वधूः कृता ॥ भारतीये-ग्राम्या ग्रामीणा ॥ श्लेषः ॥ एषा विलासभावेन द्योतयन्ती दिगन्तरम् । सरस्वतीव संबुद्धा भाति पद्मोदयस्थितिः ॥ ७४ ॥ एषेति ॥ पद्मोदयस्थितिः पद्मस्य रामस्य उदयायाभ्युदयायैव स्थितिरवस्थानं यस्याः सा संबुद्धा सम्यग्ज्ञानपरिणता एषा सीता विलासभावेन 'हावो मुखविकारः स्याद्भावश्चि. त्तसमुद्भवः । विलासो नेत्रजो ज्ञेयो विभ्रमो भ्रयुगान्तयोः ॥' इत्युक्तरूपेण विलासेन भावेन च दिगन्तरं द्योतयन्ती सती । संबुद्धा, पद्मोदयस्थितिः कमलोद्गमस्थितिः, । विलासभावेन हंसगमनस्थित्या दिगन्तरं द्योतयन्ती सरस्वती इव । भाति ॥ भारतीये-पद्मोदयस्थितिः पद्माया लक्ष्म्या उदयस्थितिरुत्पत्तिस्थानम् ॥ श्लेषः ॥ रोमराजिलतावृद्धेरालवालीकृतामिव । कपित्थवृन्तसंस्थाननिम्नां नाभिमुपागताम् ॥ ७५ ॥ वनराजी प्रवालोष्ठश्रिया पल्लवितामिव । नीलोत्पलमयीं दृष्ट्या मितैर्मुकुलितामिव ॥ ७६ ।। कैश्येन कुर्वती मुक्तप्ररोहमिव चालकैः । भृङ्गीमयी पदन्यासैः स्थलपद्ममयीमिव ॥ ७७ ॥ वक्रशीलां भ्रुवोरेव कुचयोरेव कर्कशाम् । चपलां नेत्रयोरेव केशेषु कुटिलस्थितिम् ॥ ७८ ॥ अविलिप्तकृतामोदामपीतासवमन्थराम् । अरुष्टां रक्तलोलाक्षीमतुष्टां विकसन्मुखीम् ॥ ७९ ॥ किंचित्पूर्वप्रियाद्वाल्यं दधतीं यौवनं भरात् । मूढप्रौढान्तरावस्थां साभ्रेऽर्के पद्मिनीमिव ॥ ८० ॥ लूनम्लानमृणालाभकर्णपालीसमुन्नतिम् । तालवृन्तानिलेनेव विघ्नती पक्ष्मणा मुखम् ॥ ८१ ॥ गोरक्षिकामिमां स्रष्टुं नूनमधै हृतं विधोः। रम्यं धात्रान्यथा चन्द्रः कथमर्धत्वमीयिवान् ८२ (अष्टाभिः कुलकम्) रोमेत्यादि ॥ नूनम् अहमेवं मन्ये । धात्रा ब्रह्मणा रोमराजिलतावृद्धे रोमावलीरूपलताया वृद्धिमुद्दिश्य आलवालीकृताम् इव, कपित्थवृन्तसंस्थाननिम्नां कपित्थे वृन्ताधारवद्गम्भीराम, नाभिमुपागताम्, प्रवालोष्ठश्रिया नूत्नपल्लवसदृशाधरशोभया नूत्नपल्लवरूपाधरा
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy