SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ७८ काव्यमाला। ___ वेगिनीमिति ॥ स्यन्दनक्रियां रथव्यापार वेगिनी वेगवंती सतीम्, उच्चैस्तीक्ष्णांङ्कशमु. खोद्यताम् अतितीक्ष्णाङ्कुशाप्रसंकुचितगात्राम्, कुञ्जराजिश्रियं गजश्रेणिश्रियम्, च दीनां म्लानां न पश्यामि अपि तु पुष्टाम् ॥ भारतीये-नदीनामापगानाम्, स्यन्दनक्रियाम् प्रस्रवणव्यापार वेगिनी रयवतीं, उच्चैरुच्चां, तीक्ष्णां निरीक्षणीयां, कुशमुखोद्यतां कुशाग्रनिर्मिनां, कुजराजिश्रियं झाटकसमूहश्रेणिशोभां च ॥ श्लेषः ॥ सर्वत्र विषयेऽमुष्मिन्भ्रान्तदृष्टिरितस्ततः । न पश्यामि क्वचित्तीव्र द्विषतां खरदूषणम् ॥ ६३ ॥ सर्वत्रेति ॥ द्विषतां शत्रूणां तीव्र सोढुमशक्यम्, खरदूषणं राक्षसजातीयम् ॥ भारतीये-खरदूषणमुग्रापराधम् ॥ देव किं बहुनानेन साधुनासाधुनाथवा । निष्पश्चिममिदं पश्य नेत्रमात्राखिलेन्द्रियः ॥ ६४ ॥ देवेति ॥ अनेन परिजल्पितेन किम् । इदं वक्ष्यमाणम्, निष्पश्चिममद्वितीयम् ॥ नेत्रमात्रे समारोपितसकलेन्द्रियव्यापारः सन् ॥ पटुः सुघटविस्तारसमस्तन्यायनीतिषु । रहितोदारतुष्टात्मा मदिराक्षीबताशया ॥ ६५ ॥ पद्मपाणिरशोकाभिः पक्वबिम्बाधरोन्नतिः । गम्भीरनाभिरुत्तुङ्गवक्षाश्चन्द्राननद्युतिः ॥ ६६ ॥ कम्बुग्रीवालघुश्रोणिः स्निग्धकेशान्तसंहतिः । सुभ्रूमण्डूककक्षाश्रीश्वारूरू रम्यतावधिः ॥ ६७ ॥ नखैः कुरबकच्छायैः श्लिष्टैरङ्गुलिपर्वभिः । दशनैः शिखराकारैर्व्यज्यमानोदयाकृतिः ॥ ६८ ॥ विनीतवेषमाकारं वाणीमभिजनोचिताम् । शीलं रूपानुरूपं च व्याददानोदयान्वितम् ॥ ६९ ॥ आश्रमः सर्वशास्त्राणामाकरः सर्वसंपदाम् । अन्योन्यसमयुग्माङ्गव्यञ्जनानामुपाश्रयः ॥ ७० ॥ आभिरूप्यस्य नियतिः सीमा सौभाग्यसंपदः । लावण्यस्य पयोराशिः कलानां नित्यचन्द्रिका ॥ ७१ ॥
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy