________________
७ सर्गः)
द्विसंधानम् ।
-...
७७
प्रकामं यथेष्टमवलोक्यताम् ॥ भारतीये-अपगुणोन्मुक्तविकसद्वाणसंहतिः अपगुणैरुन्मुक्ता विकसन्ती बाणानां वृक्षविशेषाणां संहतिर्यत्र अभीरामः मनोहरः एष (पुण्याश्रमः)॥श्लेषः ॥
शरप्रवाहदुर्गेऽस्मिश्रीसंपल्लक्ष्मणान्विते ।
देशेभग्नेभदन्ताये दृश्यतां दीप्रतागुरुः ॥ १८ ॥ शरेति ॥ शरप्रवाहदुर्गे मार्गणगणविषमे, श्रीसंपल्लक्ष्मणान्विते श्रीसंपदा सीतया लक्ष्मणेन सौमित्रिणा चान्विते, भग्नेभदन्ताट्ये भग्नर्हस्तिदन्तैरान्ये, अस्मिन्देशे दीप्रतागुरुः दीप्रतया प्रतापेन शरीरतेजसा वा गुरुः (रामः) दृश्यताम् ॥ भारतीये-शरप्रवाहदुर्गे पयःपूरदुष्प्रवेशे यद्वा मुञ्जसंघदुष्प्रवेशे, श्रीसंपलक्ष्मणान्विते शोभासंपत्तिचिह्नान्विते, अ. भन्ने निरुपद्रवे, भदन्ताव्ये संसारासारतापरिज्ञानेन वैरङ्गिकैः पुरुषैराश्रिते, दीप्रतागुरुः तपश्वरणादिना गुरुः (पुण्याश्रमः) ॥ श्लेषः ॥
अहो परमरौद्रत्वमसिधाराव्रतैश्चिता ।
धत्ते सङ्ग्रामदुर्गान्तभूमिर्नरकपालिनी ॥ ५९॥ अहो इति ॥ असिधाराव्रतैर्वीरक्षत्रियकुमारैः, चिता व्याप्ता सङ्ग्रामदुर्गा खरदूषणादियुद्धविषमा, नरकपालिनी नराणां कपालैाप्ता, अन्तर्भूमिः समीपभेदिनी अहो आश्चर्य परमरौद्रत्वं अतिभीष्मतां धत्ते ॥ भारतीये-असिधाराव्रतैः खड्गधारातुल्यव्रतैर्योगिभिः, नरकपालिनी नरान् केन सुखेन पालयतीत्येवंशीला, संग्रामदुर्गान्तभूमिः समीचीनग्राम प्राकारमध्यावनिः, परमुत्कृष्टं, अरौद्रत्वं प्रसनत्वम् ॥ श्लेषः ॥
प्रभञ्जनाकुलाशोकभिन्ना पुनागसंहतिः ।
एतस्मिन्नीदृशं कालं प्राप्य राजन्न राजति ॥ ६ ॥ प्रभञ्जनेति ॥ हे राजन्, प्रभञ्जनाकुला प्रध्वंसव्यग्रा, शोकभिन्ना मनःसंतापभन्ना, पुंनागसंहतिः सत्पुरुषसमूहः, एतस्मिन्दण्डकारण्ये, ईदृशं कालमन्तकतुल्यं रामलक्ष्मणयुगलं प्राप्य न राजते ॥ भारतीये-प्रभञ्जनाकुलाशोकभिन्ना वाताहताशोकवृक्षमिश्रिता, पुंनागसंहतिः वृक्षविशेषपतिः, एतस्मिन्प्रदेशे ईदृशं कालं शरदात्मकं प्राप्य [किं] न राजते ॥ श्लेषः ॥
नृप हेतुरगान्पश्य त्वं लक्ष्म्या ज्वलितानिमान् ।
वैरिदावाग्निसंतापविदग्धान्पतितानितः ॥ ६१ ॥ नृपेति ॥ हे नृप, त्वं लक्ष्म्या शोभया ज्वलिताञ्शोभितान्, वैरिदावाग्निसंतापविदग्धान् शत्रुदवानलसंगमभस्मीभूतान् इतोऽस्मिन्देशे पतितान् इमान् तुरगानश्वान् पश्य ॥ भारतीये-लक्ष्म्या हेतुस्त्वं ज्वलितान् प्रदीप्तान , अगान् वृक्षान् ॥ श्लेषः ॥
वेगिनीमिह पश्यामि नदीनां स्यन्दनक्रियाम् । कुञ्जराजिश्रियं चोच्चैस्तीक्ष्णाङ्कुशमुखोद्यताम् ॥ ६२ ॥