________________
काव्यमाला।
तिदुर्गमाः, रम्यभावोदयाः, दिक्षु द्राक्षापूगैर्द्राक्षावृक्षैः पूगवृक्षैश्चालंकृताः, इतस्ततः स्फुर. न्तीभिर्विजृम्भमाणाभिः नागवल्लीभिः सर्पश्रेणिभिः ग्रथिता गुम्फिताः, सेव्यामा आश्रय णीयशिखराः, मानरहिता इयत्तापरित्यक्ताः, द्रुमाकुला वृक्षव्याप्ताः, अष्टापदोपेतसंचाराः शार्दूलाश्रितमार्गाः अमी दृष्टिपथमागताः, सानुभोगाः पर्वतनितम्बविस्तराः अस्मिन्दण्डकारण्ये श्रियं दधति ॥ भारतीयपक्षे-चामीकरिकुलैः सुवर्णाव्यपुरुषसंतानैः, सुतरामाकुलैः पुत्राणां भार्याणां च समूहैः, युताः, सिंहकेसरसंछन्नाः सिंहकेसरैर्वृक्षविशेषैः प्रच्छन्नाः, बहुधान्यातिदुर्गमाः प्रचुरसस्यातिदुःखप्रवेशाः, रम्यभावोदयात् रमणीयतोदयात् इक्षुद्राक्षापूगैः इथूणां द्राक्षाणां पूगैः समूहैः, नागवल्लीभिस्ताम्बूललताभिः, सेव्याः सेवनीयाः, नरहिता नरेभ्यो हिताः, सानुभोगा विस्तीर्णाः, अष्टापदोपेतसंचाराः सुवर्णान्वितनिर्गमप्रवेशाः, ग्रामाः ॥ श्लेषः ॥
बहुधातुगणाकीर्णान्सुमहावागुणादिमान् ।
शब्दागम इवोद्देशान्देवलोको न मुञ्चति ॥ ५५ ॥ बह्विति ॥ वागुणात् उरीश्वरः, आ ब्रह्मा, अः नारायणः, तेषां गुणात्प्रभावात् गुणाच्छौर्या दिगुणाद्वा सुमहाः शोभनोत्सवः देवलोकः सुरसमूहः बहुधातुगणाकीर्णान् प्रचुरगैरिकादिसमूहसंकुलान् , इमान् उद्देशान् उच्चप्रदेशान् । सुमहावाग् शोभना साध्वी महती पूज्या वाग् वाणी यस्मात् सः, उणादिमान् उणादिप्रकरणवान् , शब्दागमः व्याकरणशास्त्रम्, बहुधातुगणाकीर्णान् बहुभिर्धातुभिर्वादिभिः, गणैः सर्वादिप्रभृतिगणैराकीर्णान् उ. द्देशान् प्रकरणान् इव । न मुञ्चति ॥ भारतीये हे देव, सुमहावा शोभनैर्महैरुत्सवैरावाति सः गुणादिमान् शौण्डौदार्यादिगुणवान् , लोकः अष्टादशप्रकृतिजो जनः, बहुधातुगणा. कीर्णान् प्रभूतसुवर्णादिसमन्वितान्, उद्देशान् उत्कृष्टान् धनजनकनकसस्यसमृद्धान् देशान् ॥ श्लेषः ॥
मन्दरागः स्वयं साक्षान्मन्त्रकृद्भिरधिष्ठितः।
पुण्याश्रमो विभात्येष सानुमाननया श्रिया ॥ १६ ॥ मन्देति ॥ मन्त्रकृद्भिविद्याधरैः साक्षात्परमार्थदृत्या, स्वयं स्वरूपेण, मन्दरागो मन्दराचलो मेरुः, अधिष्ठितः पुण्याश्रमः पुण्यजनकाश्रमः, एष सानुमान्पर्वतः अनया श्रिया विभाति ॥ भारतीये-मन्दरागः मन्दो रागो यत्र । मन्त्रकृद्भिर्योगिभिः । सानुमान् ल. क्ष्मीप्रदानसमर्थः । पुण्याश्रमः पुण्यानां यतीनामाश्रमः ॥ श्लेषः ॥
एष चापगुणोन्मुक्तविकसहाणसंहतिः ।
प्रदेशेऽस्मिन्नभीरामः प्रकाममवलोक्यताम् ॥ १७ ॥ एषेति ॥ चापगुणोन्मुक्तविकसद्वाणसंहतिः चापस्य धनुषो गुणाज्ज्याया उन्मुक्ता वि. कसन्ती बाणानां शराणां संहतिर्येन सः, अभीनिर्भयः, रामः दशरथात्मजः, अस्मिन्प्रदेशे