________________
७ सर्गः]
द्विसंधानम् । टिमध्यप्रदेशाः, न्यग्रोधपरिमण्डलाः तिर्यग्रोधकटिप्रदेशाः, उद्धृतापाण्डुरश्यामविटपायतबाहवः उद्धृतापाण्डुरश्यामविटपा इव आयता बाहवो यासां ताः, संक्षिप्तबन्धुरस्कन्धाः व्यापारितमनोज्ञांसाः, प्रवालबहुलश्रियः प्रकृष्टकेशप्रचुरश्रियः, श्रीमत्तरलतोपेताः शोभाचश्चलताभ्यामुपेताः, सरला ऋजवः, संगता मिलिताः, व्रजकान्ता गोपवधूट्यः इतो. ऽस्मिन्प्रदेशे, प्रियवल्लवलीलाल्या प्रियगोपकटाक्षमालया (यमकश्लेषबन्धेषु सबिन्दुकाबिन्दुकयोरभेदात् गुणानामभेदकत्वाद्वा न दोषः) संगता मिलिताश्वकासति ॥ श्लेषः ॥
पद्मरागप्रभाजालं शिखिनः शङ्कयामुतः ।
विलोक्य वनराजीषु विद्रवन्ति प्रभोगजाः ॥ ४९ ॥ पद्मेति ॥ हे प्रभो, गजा हस्तिनः, अमुतः स्थानात् पद्मरागप्रभाजालं शोणमणिदीधितिसमूहं विलोक्य, शिखिनो वहेः, शङ्कया वनराजीषु कान्तारश्रेणिषु, विद्रवन्ति पलायन्ते ॥ भारतीयपक्षे--अगजाः शिखिनो मयूराः, वनराजीषु जलराशिषु पद्मरागप्रभाजालं किंजल्ककान्तिश्रेणिं विलोक्य अमुतोऽस्मिन्देशे कया प्रियया शं सुखेन विद्रवन्ति ॥ श्लेषः ॥
शस्यकं हरितग्रासबुद्ध्या वातमजा मृगाः ।
ढौकन्ते चापयन्त्यस्मिंश्चलानां हीदृशी गतिः ॥ ५० ॥ शस्यकमिति ॥ शस्यकं नीलमणि, वातमजाः शीघ्रगामिनः, भ्रान्त्यर्थान्तरन्यासौ ॥
एषा पक्कफलाशालिसंपदम्भोजशालिनी ।।
बहुशोभास्थलीलातिमोहनीयातिरम्यताम् ॥ ११ ॥ एषेति ॥ पक्कफलाशालिसंपत् पक्कफलेच्छुभ्रमरसमूहा, अम्भोजशालिनी पद्मशोभिनी, बहुशोभा प्रचुरदीप्तिः, मोहनीया मोहजननी, एषा स्थली अतिरम्यतां लाति ॥ भारतीयेपक्कफलाशा पक्कफलास्वादिनी, भास्थलीलातिमोहिनी भायां तिष्ठन्त्या लीलया मोहोत्पा. दिका, अम्भोजशालिनी एषा अलिसंपत् रम्यतां याति ॥ श्लेषः ॥
अपि चामीकरिकुलैः सुतरामाकुलैर्युताः । सिंहकेसरसंछन्ना बहुधान्यातिदुर्गमाः ॥ ५२ ॥ रम्यभावोदयादिक्षुद्राक्षापूगैरलंकृताः । ग्रथिता नागवल्लीभिः स्फुरन्तीभिरितस्ततः ॥ १३ ॥ सेव्यायामानरहिताः सानुभोगा द्रुमाकुलाः ।
अस्मिन्नष्टापदोपेतसंचारा दधति श्रियम् ॥५४॥ (त्रिभिः कुलकम्) अपीति ॥ अपि च आकुलैर्व्यप्रैः, करिकुलैर्गजवृन्दैः सुतरामतिशयेन युताः, सिंहकेसरसंछन्नाः कण्ठीरवकण्ठकेशप्रच्छादिताः, बहुधान्यातिदुर्गमाः बहुधा अन्यैः श्वापदैर..