SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ काव्यमाला । उद्दयोतितदिशः पक्का लोकस्याजीवहेतवः । दिव्योषध्यो विभान्त्येताः परार्थाः सक्रिया इव ॥ ४४ ॥ उयोतितेति ॥ उयोतितदिशः प्रकाशिताशाः, पक्काः प्राप्तपाकाः, लोकस्य आजीव. हेतवः जीवनहेतवः जीवपर्यन्तकारणानि वा एता दिव्योषध्यः परार्थाः सक्रियाः सत्पुरुषाचरणानि इव विभान्ति ॥ भारतीयपक्षे-दिव्य इति संबोधनम् ॥ भूर्जायते प्रदेशेऽस्मिन्सालतालीसमाकुले । अभिख्यातियुता नित्यं शष्पच्छायोदकान्विता ॥ ४५ ॥ भूर्जेति ॥ भूर्जायते भू रायते सालतालीसमाकुले सालैक्षः तालीवृक्षश्च समाकुले व्याप्ते अस्मिन्प्रदेशे नित्यमुदकान्विता सजला युता मिश्रिता निबिडा शष्पच्छाया शष्पैर्बालतृणैरुपलक्षिता छाया अभिख्याति शोभतेतराम् ॥ भारतीयपक्षे-लतालीसमाकुले वल्लीश्रेणिसंकीर्णेऽस्मिन्प्रदेशे अभिख्यातियुता शोभायुक्ता शष्पच्छायोदकान्विता शष्पैः छायया उदकेनान्विता सती सा भूर्भूमिर्जायते ॥ श्लेषः ॥ वैशाखोन्मन्थनोत्कम्पाद्गलन्मूर्धप्रसूनकाः । सुग्लानिजघनाभोगा न्यग्रोधपरिमण्डलाः ॥ ४६ ॥ उद्धृतापाण्डुरश्यामविटपायतबाहवः । संक्षिप्तबन्धुरस्कन्धाः प्रवालबहुलश्रियः ।। ४७ ॥ श्रीमत्तरलतोपेताः सरलाः संगता इतः । प्रियवल्लवलीलाल्या व्रजकान्ताश्चकासति ।। ४८॥(त्रिभिः कुलकम्) वैशाखेति ॥ हे प्रियवन्, लवलीलाल्या लवलीनां चन्दनलतानामिलानां महीनाम् आल्या श्रेण्या व्रज । यतो वै निश्चयेन इतोऽस्मिन्प्रदेशे शाखोन्मन्थनोत्कम्पात् शाखावि. लोडनोर्ध्वकम्पात् गलन्मूर्धप्रसूनकाः पतच्छिखरपुष्पाः, सुग्ला म्लानाः, निजघनाभोगाः स्वनितम्बविस्तराः, न्यग्रोधपरिमण्डलाः वटतुल्यबुनाः, उद्धृतापाण्डुरश्यामविटपायतबाहवः उद्धृता उद्दण्डा आपाण्डुरश्यामा इषच्छुकश्यामला विटपाः क्षुद्रशाखा एव आयता दीर्घा बाहवो हस्ता येषां ते, संक्षिप्तबन्धुरस्कन्धाः ह्रस्वमनोहरशाखाजन्मस्थानाः, प्रवालबहुलश्रियः प्रवालानां कोमलपत्राणां बहुला श्रीः शोभा येषां ते, श्रीमत्तरलतोपेताः श्रिया शोभया मत्तानां क्षीबाणां रत्नानां भ्रमराणां तोपेन समूहेन च इता युताः । श्रीम. त्तर इति संबोधनं वा । संगताः परस्परं मिलिता घनाः, कान्ता मनोज्ञाः सरला देवदारवः चकासति भासन्ते ॥ भारतीयपक्षे-वैशाखोन्मन्थनोत्कम्पात् वैशाखेन मन्थनदण्डेन उन्मन्थनाद्विलोडनात् य उत्कम्प अर्बकम्पनम् तस्मात्, गलन्मूर्धप्रसूनकाः । च्यवन्मस्तककुसुमाः, सुग्लानिजघनाभोगाः सुग्लानिमज्जघनाभोगाः अतिक्लेशप्राप्तक
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy