________________
७ सर्गः]
_
द्विसंधानम् ।
सलाक्षिकपदन्यासाः कुङ्कुमै रञ्जिता इव ।
एताश्चोपवने दिव्यस्त्रीणां क्रीडाः सुरान्विताः॥३९॥(त्रिभिः कुलकम्) विक्षिप्तेति ॥ [हे देव] उपवने उद्यानवने एताः सुरतापातसंभ्रमात् संभोगप्रथमारम्भव्याकुलत्वात्, विक्षिप्तपुष्पशयनाः विकीर्णकुसुमतल्पाः, कामसङ्ग्रामरचना स्मरसमरसंनिवेशा इव कुसुमेषुचिताः सुमबाणव्याप्ताः, अन्योन्यबन्धनानीतविशसूत्रयुताः परस्परयन्त्रणायै प्रापितेन पद्मिनीकन्दतन्तुना युता इव अलीककलहाकृष्टसूत्रशेषीकृतस्रजः प्रेमकलहेन पूर्वमाकृष्टाः पश्चात् सूत्रशेषीकृता स्रजः कुसुममाला यासु ताः, कुङ्कुमै रञ्जिता इव, सलाक्षिकपदन्यासाः लाक्षया रक्तयोः पदयोासेन सहिताः, सुरान्विताः सुरैर्देवैरन्विता दिव्यस्त्रीणां सुरसुन्दरीणां क्रीडाः केलिभूमयः सन्ति ॥ भारतीयपक्षे-दिव्य इति संबोधनम् । सुरान्विता मदिरायुता प्रशस्तद्रव्ययुक्ता वा ॥ श्लेषः ॥
स्मरार्ता वारुणीभूतपरिप्लवविलोचनाः । सिञ्चन्त इव सुधया गायन्तः काकलीकलम् ॥ ४० ॥ - चलत्परिमलासक्तलीलालोलालिसंवृताः । तमालबहुलारण्यमभिविष्टा इव स्फुटम् ॥ ४१ ॥ इह किंपुरुषाः पश्य पुष्पाणामुच्चिकीषया ।
उद्यानेन परिश्रान्ताः संक्रीडन्ते प्रियासखाः॥४२॥ (त्रिभिः कुलकम्) स्मरार्ता इति ॥ इह अद्रौ स्मरार्ताः कंदर्पकदर्थिताः, वारुणीभूतपरिप्लवविलोचनाः वारुण्या भूतः समुत्पन्नः परिप्लवो आकुलता ययोस्ते विलोचने नेत्रे येषां ते, सुधया अमृतेन सिश्चन्त इव काकलीकलं मधुरस्वरमनोहरं यथा स्यात्तथा गायन्तः, चलत्परिमलासक्तलीलालोलालिसंवृताः चलद्भिः परिमलेष्वासक्तैर्लीलालोलैरलिभिभ्रमरैः संवृताः, स्फुटं निश्चयेन, तमालबहुलारण्यम् अभिविष्टाः प्रविष्टा इव, उद्यानेन उर्ध्वगमनेन परिश्रान्ताः किंपुरुषाः प्रियासखा भार्यासहायाः सन्तः पुष्पाणाम् उच्चिकीषया उच्चतुमिच्छया संक्री. डन्ते [इति] त्वं पश्य ॥ भारतीयपक्षे-इह उद्याने पुरुषाः किं न संक्रीडन्ते अपि तु संक्रीडन्त एव ॥ अरुणीभूतपरिप्लवविलोचनाः अरुणीभूते परिप्लवे चञ्चले विलोचने येषां ते ॥ श्लेषः ॥
देवाङ्गनापदन्यासगुञ्जद्वलयशिञ्जनाः ।
एते लतागृहा भान्ति कामकारालया इव ॥ ४३ ॥ देवेति ॥ देवाङ्गनापदन्यासगुञ्जद्वलयशिञ्जनाः देवाङ्गनानां सुरसुन्दरीणां पदन्यासेन गु. अतां वलयानां शिअनं यत्र ते एते लतागृहा कामकारालया कंदर्पकारागृहा इव भा. न्ति ॥ भारतीयपक्षे-देव इति संबोधनम् ॥ श्लेषः ॥