SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ७२ काव्यमाला। काशते ॥ भारतीयपक्षे-अद्रावितस्थाने अनुपद्रुतप्रदेशे पुण्डरीकिणि कमलयुते सरः सरोवरं वा काकौ ॥ श्लेषः ॥ नातिकामन्ति सरितो गतिस्खलितदूषिताः । अस्मिन्नेकानुकूलत्वं यान्ति गेहेऽङ्गना इव ॥ ३३ ॥ नातीति ॥ गतौ स्खलितं स्खलनं दूषितं यासां ताः सरितोऽस्मिन् स्थानेऽद्रौ सरसि च (अङ्गना गेहे इव) नातिकामन्ति न लङ्घन्ते किंतु एकानुकूलत्वं यान्ति ॥ उपमा ॥ पयोधरभराक्रान्तनितम्बालसविक्रमाः । तन्वीः स्पर्शसुखोत्सङ्गा नानाकुसुमवासिताः ॥ ३४ ॥ सानुवृत्तोरुसंभोगा गम्भीरावर्तनाभिकाः । रम्याधरोदरीभूताः प्रारोहचिकुरश्रियः ॥ ३५ ॥ युक्ताः कुशलताभोगैरुत्कटाक्षाः शुभाननाः । कान्ता बिभर्ति देशोऽयमस्मिन्नुच्चैस्तलोदरीः॥३६॥(त्रिभिर्विशेषकम्) पयोधरेति ॥ उच्चैस्तल उच्चभूमिकोऽयं देशः अस्मिन्नद्रौ, पयोधरभराकान्तनितम्बालसविक्रमाः पयोधराणां मेघानां भरेण आक्रान्तैनितम्बैः सानुभिरलसानां मन्दगतीनां वीनां क्रमः पादविक्षेपो यत्र ताः, तन्वीः मृद्वीः, स्पर्शसुखोत्सङ्गाः स्पर्शेन सुखकृदुत्सङ्गो यत्र ताः, नानाकुसुमवासिताः विविधपुष्पसुरभीकृताः, सानुवृत्तोरुसंभोगाःसानुषु वृत्तो वतुल उरुगरिष्ठः संभोगो विस्तारो यासां ताः, गम्भीरावर्तनाभिकाः गम्भीरोऽतलस्पर्शः आवर्तः पयोभ्रमो यत्र तादृक् नाभिर्मध्यदेशो यासां ताः, रम्या मनोहराः, धरोदरीभूता धरायाः पृथ्व्या उदरीभूताः, प्रारोहाचिकुरश्रियः प्रारोहैवक्षनेत्रैरेव चिकुरैः केशैः श्रीः शोभा यासां ताः, कुशलताभोगैर्दर्भवल्लीसमूहैर्युक्ताः, उत्कटाक्षा प्रचण्डविभीतकाः शुभानना रम्यद्वारप्रदेशाः, कान्ताः कमनीया, जलनिकटाश्च, दरीबिभर्ति ॥ भारतीयपक्षे-अयं देशोऽस्मिन् सरसि, पयोधरभराक्रान्तनितम्बालसविक्रमाः स्तनभाराकान्तकटिप्रदेशमन्दचरणाः तन्वीः कुशलोमनखादिकाः, सानुवृत्तोरुसंभोगाः सानुपूर्व्यजङ्घाविस्ताराः, गम्भीरावर्तनाभिका निम्नवर्तुलनाभिप्रदेशाः, रम्याधरोदरीभूताः मनोहरौष्टोदरीभूताः, प्रारोहचिकुरश्रियः प्रारोहाणामिव चिकुरश्रीः केशशोभा यासां ताः, कुशलताभोगैश्चातुर्यप्राचुर्यैयुक्ताः, उत्कटाक्षाः उद्गतापाङ्गाः, शुभानना मनोहरवदनाः, उच्चैस्तलोदरीः उच्चैरतीव तलं क्षाम उदरं यासां ताः कान्ताः कामिनीः बिभर्ति ॥ श्लेषः ॥ विक्षिप्तपुष्पशयनाः सुरतापातसंभ्रमात् । कुसुमेषुचिताः कामसङ्ग्रामरचना इव ॥ ३७ ॥ अलीककलहाकृष्टसूत्रशेषीकृतस्त्रजः । अन्योन्यबन्धनानीतबिशसूत्रयुता इव ॥ ३८ ॥
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy