________________
७ सर्गः]
द्विसंधानम् ।
प्रभावीति ॥ प्रभाविशारदं प्रभया विशारदं प्रवीणम् । तव रावणस्य वीर्यम् उद्योगाय । अखिलं समस्तम् परमाध्यात्मिकं तत्त्वं निर्वाणाय मोक्षाय इव । दीप्यते ॥ भा. रतीयपक्षे-प्रभावि प्रभाववत् प्रभामवतीति दीप्तिरक्षकं वा शारदं शरदि भवं शारदम् ॥ श्लेषोपमा ॥
देवावदातवितता दिशः सह विहायसा ।
सूचयन्ति विना विघ्नासिद्धिं हस्तगतामिव ॥ २८ ॥ देवेति ॥ हे देव, अवदातवितता नैर्मल्यं प्राप्ता विहायसा आकाशेन सह सहिता दिशो विघ्नात् अन्तरायात् विना सिद्धिं [हस्तगताम् इव] सूचयन्ति ॥ उत्प्रेक्षा ॥
मृदुराश्वासजननः खरदण्डविघट्टनः ।
कृतकृत्योऽधिकारीव तवार्यान्वीषिकोऽनिलः ॥ २९ ॥ मृदुरिति ॥ हे आर्य, अनिलो वायुः, मृदुर्मन्दो मधुरवाक च, आश्वासजननः शी. तलः प्राणिनामाप्यायनोत्पादकश्च, खरदण्डविघटनः कमलस्पर्शित्वेन सुरभिः तीक्ष्णदण्डनाशकश्च, कृतकृत्यः कृतपुण्यः, अधिकारी प्राडिवाक इव, तव, आन्वीषिकोऽनुकूलो वर्तमानोऽस्ति ॥ श्लेषः ॥
भूरिस्तम्बेरमेकान्ते फलशालिवने घने ।
राजन्कपिशताकीर्णे पश्य त्वं कामनीयकम् ॥ ३० ॥ भूरिस्तेति ॥ हे राजन् रावण, भूरिस्तम्बेरमे प्रचुरगजे, कान्ते मनोहरे, घने निबिडे, कपिशताकीर्णे वानरशतसंकुले फलशालिवने फलशालिनि वने कामनीयकं कमनीयतां पश्य अवलोकय ॥ भारतीयपक्षे-भूरिस्तम्बे प्रचुरझाटकसमूहे फलशालिवने फलोपलक्षितशालिवने कपिशताकीर्णे पिङ्गताव्याप्ते एकान्ते निर्जने अरमत्यर्थम् ॥ श्लेषः॥
शत्रूणां दण्डकक्षेत्रमप्रवि(वे)श्यमिदं धनम् ।
अभीष्टस्तम्बकरिभिरवगाढं विलोकय ॥ ३१ ॥ शत्रणामिति ॥ शत्रणाम् अप्रवि(वे)श्यं प्रवेष्टुमशक्यम् घनं निबिडम् अभीष्टस्तम्बकरिभिः वाञ्छिततृणादिगुच्छैर्मतङ्गजैरवगाढं विलोडितम् इदं दण्डकक्षेत्रं विलोकय ॥ भारतीयपक्षे हे शत्रूणां दण्डक, अभीष्ठस्तम्बकरिभिरभिलषितधान्यैरवगाढं व्याप्तं धनं (जनैः) अप्रवि(वे)श्यमिदं क्षेत्रं विलोकय ॥ श्लेषः ॥
अस्मिन्नद्रावितस्थाने गहने पुण्डरीकिणि ।
प्रफुल्लानोकहच्छन्ने नातिराजति वासरः ॥ ३२ ॥ अस्मिन्निति ॥ अस्मिन् अद्रौ पुण्डरीकिणि व्याघ्रवति प्रफुल्लानोकहच्छन्ने प्रकृष्टकुसुमिततरुभिश्छन्ने गहने इतोऽस्मिन् स्थाने (विसर्गलोपः) वासरो दिवसो न अतिराजते प्र