SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ७० काव्यमाला। मे मम रुचि जरायाः संधा यत्र तस्मादभियोगादाक्षेपाजातम् परीभावमवज्ञा प्रतिकर्तु प्रतीकारं कर्तुं समावहति समादधाति ॥ भारतीयपक्षे-अजातशत्रोयुधिष्ठिरस्य ते तव । जरासंधस्याभियोगात्पक्षपातिनो दुर्योधनाजातम् 'जरासंधगृह्यो दुर्योधनः' इति प्रसिद्धः ॥ दुःखमोचनमिष्टस्य क्रियते हेतिधारिणा । वीरेण भीरुणा शूर शाखोद्धारेण बाहुना ॥ २२ ॥ दुःखेति ॥ हे शूर, इष्टस्य प्रियस्य दुःखस्य मोचनं वीरेण शूरेण का, हेति शस्त्रं धरतीत्येवंविशिष्टेन । भीरुणा कातरेण कर्ता, शाखोद्धारेण पूत्करणार्थ शाखाया उद्धारो येन तेन । बाहुना क्रियते विधीयते॥ । शरधाराभिवर्षेण वैरिविप्लवकारिणा। विधुरं हियते बन्धो बाष्पाम्भोदुर्दिनेन वा ॥ २३ ॥ शरेति ॥ हे बन्धो वैरिणां विप्लवं करोतीत्येवंविधेन शरधाराभिवर्षेण बाणालिवृष्ट्या विधुरं भयं ड्रियते ।। अथवा बाष्पाम्भो दुर्दिनेन अश्रुजलच्छादितदिवसेन विधुरं भयं अतिवियोगश्च ह्रियते ॥ ___ राजसंदर्शने व्याधौ चिन्तायां रिपुपीडने । प्रतिक्रियासु सर्वासु निर्बन्धाद्वान्धवं विदुः ॥ २४ ॥ राजेति ॥ अत्र सर्वत्र निर्बन्धादङ्गीकाराट् बान्धवं (बुधाः) विदुः ॥ एतेन बान्धवशब्दस्य प्रवृत्तिनिमित्तं दर्शितम् ॥ स्थाने मातुलपुत्रस्य परिपात्यै तवोद्यमः । आपदीषल्लभाः कतुमुपकारा हि मानिनाम् ॥ २५ ॥ स्थाने इति॥ [हे बन्धो,] मातुलपुत्रस्य खरदूषणस्य श्रीकृष्णस्य वा परिपात्यै परिपालनाय यत् तव उद्यमः स्यात् तत् स्थाने युक्तम् ॥ हि यतो मानिनाम् आपदि विपदि क. तुम् उपकारा ईषल्लभा दुर्लभा भवन्ति ॥ अर्थान्तरन्यासः ॥ अस्ति नानाप्रकारोऽसौ कामं दुर्योधनो रिपुः। तत्तवैष बलं पक्षो ज्योत्स्नाभोगो विधोरिव ॥ २६ ॥ अस्तीति ॥ असौ रिपुः काममत्यर्थ नानाप्रकारो बहुविधोपायः, अत एव दुर्योधनो दुःखेन योद्धं शक्यः अस्ति । तत् तस्मात् एष खरदूषणः तव ज्योत्स्नाया आभोगो य. स्मिन्स विधोश्चन्द्रस्येव बलमस्ति ॥ भारतीयपक्षे—असौ दुर्योधनस्तन्नामा । एष विष्णुः ॥ श्लेषः ॥ प्रभाविशारदं वीर्य तवोद्योगाय दीप्यते । निर्वाणाय परं तत्त्वमाध्यात्मिकमिवाखिलम् ॥ २७ ॥
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy