________________
७ सर्गः
द्विसंधानम् ।
शम्य आकर्ण्य अरण्ये वने तपः कुर्वतां मुनीनाम् अपि आस्वनितस्य मनसः क्षोभश्चालनमासीत् ॥
विश्वेन वारिणा तस्मिन्द्योतमाने महीयसि ।
कलुषत्वं परित्यक्तं स्वच्छत्वमुपपादितम् ॥ १७ ॥ विश्वेनेति ॥ महीयसि गरिष्ठे तस्मिन् रावणे द्योतमाने प्रतपति सति विश्वेन सर्वेण अरिणा शत्रुणा कालुष्यं परित्यक्तं स्वच्छत्वं प्रसन्नता उपपादितम् ॥ शरत्पक्षे-तस्मि- . शरदि वारिणा जलेन । स्वच्छत्वं निर्मलत्वम् ॥ श्लेषः ॥
वप्राणां रम्यतालक्ष्मीः सोत्पलाशालिसंपदाम् ।
तेन पक्कफलापाण्डुरानिन्ये लङ्घनक्रियाम् ॥ १८ ॥ वप्राणामिति ॥ तेन रावणेन सोत्पलाशालिसंपदाम् सोच्चब्रह्मवृक्षभ्रमरविभूतीनामुच्चपलाशवृक्षश्रेणिरूपसंपदा सहितानां वा वप्राणां मृच्चयानां पक्कैः फलैरापाण्डू रमणीयत्वशोभा लङ्घनक्रियामास्कन्दनक्रियामानिन्ये ॥ शरत्पक्षे तेन शरत्कालेन शालिसंपदा शालय एव संपद्येषां तेषां वप्राणां केदाराणां सोत्पला उत्पलैः कमलैः सहिता पक्कफला पक्कानि फलानि यस्यां सा पाण्डुः ॥ श्लेषः ।।
किंशुकाकुलभूमीनां नगानां फलसंपदः।
नामिताः परिपक्वाणां कृता रभसयामुना ॥ १९ ॥ किंशुकेति ॥ अमुना रावणेन रभसया औत्सुक्येन विमानवेगेन किंशुकाकुलभमीनां किंशुकैः पलाशकुसुमैराकुला भूमियेषां तेषां परिपक्काणां पाकपर्यायप्राप्तानां नगानां वृ. क्षाणां फलसंपदः नामिता नम्राः कृताः॥ शरत्पक्षे-अमुना शरत्कालेन शुकाकुलभूमीनां शुकैः कीरैराकुला भूमिर्येषां तेषां परिपक्काणां नगानां शालिवृक्षाणाम् अमिताः प्रचुराः फलसंपदो न कृताः किम् । अपि तु कृता एव ।। श्लेषः ॥
तस्मिन्कालेऽनुजोपायात्प्रस्थितं प्रतिकेशवम् ।।
विश्वविश्वंभरानाथमित्थमूचेऽग्रजं वचः ॥ २० ॥ तस्मिनिति ॥ तस्मिन्काले अनुजा शुर्पणखा विश्वविश्वंभरानाथम् अग्रज रावणम् उपायात् समागता इत्थं प्रस्थितं वनप्राप्तं केशवं प्रति लक्षीकृत्य वच उचे ॥ प्रतिकेशवं केशवाभिमुख्येन प्रस्थितमग्रजम् । इत्थं वक्ष्यमाणप्रकारेण उपायात् सामादिप्रयोगात् वच उचे इति वान्वयः ॥ भारतपक्षे-तस्मिञ्शरत्काले अनुजो भीमः प्रतिकेशवं प्रस्थितमग्रजं युधिष्ठिरम् अपायात् द्यूतेन सकलपृथ्वीहरणात् ॥ श्लेषः ॥
प्रतिकर्तुं परीभावं जरासंधाभियोगजम् ।
उद्यमोजातशत्रोस्ते समावहति मे रुचिम् ॥ २१ ॥ प्रतिकर्तुमिति ॥ जातशत्रोर्जातः शत्रुर्यस्य तस्य ते तव रावणस्य उद्यम उद्योगो