________________
m
काव्यमाला ।
सप्तमः सर्गः । अत्रान्तरे शरच्छन्नदिग्दशास्यः सपुष्पकः । चन्द्रहासकरः कालो बाणासनपरिग्रहः ॥ १ ॥ दीप्यारविन्दिनं लोकं विश्वं कुर्वन्निवाकुलम् ।। दुःखलब्धात्मसंभूतिं वसारं मानयन्मुहुः ॥ २ ॥ पद्मस्योदर्कसंतापं भेदं कुवलयस्य च ।
सानाथ्यं बन्धुजीवानां कर्तुकामः समागमत् ॥३।। (त्रिभिविशेषकम्) अत्रेत्यादि ॥ अत्रान्तरे खरदूषणवधानन्तरम् । शरच्छन्नदिक् शरैश्छन्ना दिशो येन सः। सपुष्पकः पुष्पकेण विमानेन सहितः । चन्द्रहासकरः चन्द्रहासनामकखड्गयुक्तकरः । कालः कालवर्णः । बाणासनं धनुरेव परिग्रहो यस्य ।स दशास्यो रावणः । दीप्त्या तेजसा रविं सूर्यम् , (तस्याकुलत्वेन) दिनं दिवसम् (दिवसस्य सूर्यकृतत्वात्), विश्वं समस्तं लोकं जगत् , (दिनादिव्याकुलत्वेन) आकुलं कुर्वन् इव । दुःखलब्धात्मसंभूति दुःखेन लब्ध आत्मसंभूतिः शम्बुकुमाराख्यपुत्रो यया तां स्वसारं भगिनी मुहुः मानयन् सन् । पद्मस्य रामस्य उदर्कसंतापमुत्तरकालकदु:खं कुवलयस्य भूमण्डलस्य भेदं बन्धुजीवानां बान्धवानां सानाथ्यं साहाय्यं कर्तुकामः समागच्छत् ॥ भारतीयपक्षे-अत्रान्तरे गोग्रहनिवृत्त्युत्तरं छन्नदिग्दशास्यः छन्नानि दिशो दश आस्यानि (अर्थाद्दशदिशः) येन सः । सपुष्पकः पुपकैः सहितः । चन्द्रहासकरः चन्द्रस्य हासं द्युतिं करोति सः । बाणासनपरिग्रहः । बाणासनौ वृक्षा एव परिग्रहो यस्य सः । शरत् काल: शरतुः । दीप्त्या धर्मणा विश्वं लोकम् आकुलं अरविन्दिनं कमलिनं कुर्वन् इव । दुःखलब्धात्मसंभूतिं कष्टप्राप्तात्मोत्पत्तिं स्व. सारं स्व एव सारो यस्मिन्कर्मणि यथा स्यात्तथा मुहुः मानयन् जानन् । पद्मस्य पयोजस्य उदर्कसंतापम् उद्गतसूर्यसंतापम् कुवलयस्य कुमुदस्य भेदं विकाशम्, बन्धुजीवानां माध्याङ्गिकपुष्पाणां सानाथ्यं सस्वामिकलं कर्तुकामः समागमत् समाजगाम ॥ श्लेषः । सर्गेऽस्मिन्ननुष्टुप्छन्दः॥
तथा तं वीक्ष्य वियति व्यभ्रे चेलुः सुरासुराः ।
स्थित्यतिक्रमभीतेन शस्त्रमिन्द्रेण संहृतम् ॥ ४ ॥ तथेति ॥ अत्र शक्रादीनां रावणदर्शनेन भयम्, शरद्दर्शनेन सोत्सवत्वम्, दर्शयति स्थित्यतिक्रमभीतेन स्थानत्यागभीतेन अवस्थानोल्लङ्घनभीरुणा इन्द्रेण शक्रेण शस्त्रं धनुः संहृतम् । शरदि शक्रधनुषो हरणात् ॥ श्लेषः ॥
उत्पलायतलोलाक्षः कामुकीभिरुपारतः ।। किंनराणां गणः क्रीडन्प्रसन्नपवने वने ॥ ५ ॥ उत्पलेति ॥ लोलाक्षः चकितलोचनः कामुकीभिः भार्याभिः सह उपारत उपद्रुतः । प्रस