________________
७ सर्गः]
द्विसंधानम् ।
अपवने प्रसन्नो गुणत्रयसमन्वितः पवनो वातो यत्र तत्र वने क्रीडन् किंनराणां गण उत्प. लायत रावणभयेनोडीनः ॥ शरदं दृष्ट्वा उत्पलायतलोलाक्षः कमलदीर्घचञ्चललोचनः प्रसन्नपवने वने कामुकीभिः सह क्रीडन् नराणां गणः किम् उपारतः । अपि तु नोपारतः ॥ श्लेषः ॥
साधुन्यायेयमत्युच्चैर्गतोद्धतगतिः स्थितः ।
इच्छुः प्रसादमेतस्य लोकः प्रणतिमीयिवान् ॥ ६ ॥ साध्विति ॥ साधुन्याये सत्पुरुषैः सुरचिते मार्गे साधुमार्गे वा, स्थितः, अत्युच्चैर्गतोद्धत. गतिः अत्युच्चैरतिशयेन गता उद्धता उत्कटा गतिर्वर्तनं यस्य सोऽयं लोकः [अस्य रावणस्य] प्रसादमिच्छुः सन्नेतस्य रावणस्य प्रणति प्रणाममीयिवान् कृतवान् ॥ शरत्पक्षे-या धुन्या नद्या अत्युच्चैरतिशयेन उद्धतगतिरासीत् सा इयं गता । तथा प्रसादं पुष्पफलादिसंपत्तिमिच्छुः सन् स्थितः लोक एतस्य शरदः प्रणतिमीयिवान् ॥ प्रथमे पक्षे भूम्यादिक्षोभः, द्वितीये शरत्स्वभावकथनम् ॥ श्लेषः ॥
वीचिबाहुभिरालिङ्गंश्चिरदृष्टामिवावनिम् ।
पारावारश्चचालोचैरपारः पूरयन्दिशः ॥ ७ ॥ वीचीति ॥ रामायणपक्षे रावणदर्शनेन समुद्रक्षोभः । शरत्कालस्वभावकथनं च ॥
सहसा वल्लकीहस्ता विचेलुः सिद्धकोटयः।
दिवि ज्योतिर्गणज्योतिस्तीनं जज्ञेऽतिविद्युति ॥ ८ ॥ ' सहसेति ॥ दिवि गगने तीव्रमपि ज्योतिर्गणज्योतिः नक्षत्रसमूहतेजः अतिविद्युति तेजोहीनं जज्ञे ॥ शरत्पक्षे--सहसा हास्यसंयुक्ताः । अतिविद्युति अतिक्रान्तविद्युति दिवि नक्षत्रगणतेजस्तीव्रमुग्रं जज्ञे ॥ श्लेषः ॥
विमुक्तं दूरमभ्रान्तैर्विमानैः ककुबन्तरम् ।
नभश्चरसमारूडैः कृतकानकशिञ्जितैः ॥ ९॥ विमुक्तमिति ॥ अभ्रान्तैः निःसंदेहैर्धमणरहितैर्वा, नभश्वरसमारूढः नभश्चरा देवाः समा. रूढा येषु तैः, कृतकानकशिञ्जितैः कृतानि कानकानां स्वर्णभूषणानां शिञ्जितानि येषु तैः, विमानैः, ककुबन्तरम् दिगन्तरम् , दूरं यथा स्यात्तथा विमुक्तम् ॥ शरत्पक्षे-विमानैः विगतं मानं परिगणनं येषां तैरसंख्यैः, कृतं केन जलेन आनकस्यैव शिञ्जितं यत्र तैः, रसं जलम् आरूढैः सजलैः, अभ्रान्तैः पयोधरस्वरूपैः ककुबन्तरं दिगन्तरं नभो वियच्च दूरं यथा स्यात्तथा विमुक्तम् ।। श्लेषः ॥
छोत्कारच्छातजठरैस्तृणकौतुककंकणैः । बन्धूकतिलकन्यासैर्नीलोत्पलवतंसकैः ॥ १० ॥