________________
६ सर्गः]
द्विसंधानम् । भयाद्यदेवोद्गतमङ्गनानां देवासुराणां प्रधनोत्सुकानाम् ।
तदेव हर्षस्य तयोर्जयेन रोमाञ्चमस्याप्युपकारि जातम् ॥ ४८ ॥ भयादिति ॥ यदेव रोमाञ्चं प्रधनोत्सुकानां रणोत्कानां देवासुराणां सुरदैत्यानामङ्गनानां कामिनीनां भयाजातम् , तदेव रोमाञ्चं तयोर्नरेन्द्रयोर्जयेन अस्य हर्षस्याप्युपकारि जातम् ॥ उपजातिः ॥
आशा मुक्ता बन्धनेनेव सर्वा दीर्घ तत्रोदश्वसीदेव भूमिः ।
युद्धे वृत्ते विश्रमं विश्वमागान्नो विश्रान्तः कंदरे सिंहनादः ॥ ४९॥ आशा इति ॥ युद्धे वृत्ते समाप्ते सति सर्वा आशा दिशो बन्धनेन मुक्ता इव जाताः, भूमिः तत्र रणभूमौ दीर्घ यथा स्यात्तथा उदश्वसीदेव, विश्वं जगत् विश्रममागात् विश्रान्तम्, कंदरे सिंहनादस्तु न विश्रान्तः ॥ शालिनी वृत्तम् ॥
वियति सिद्धगणोऽप्युपवीणयञ्जलधरान्तरदर्शितविग्रहः ।
त्रिभुवनं भ्रमति स्म यशस्तयोः किमु मुहुर्मुमुहुर्न चवैरिणः॥५०॥ वियतीति ॥ जलधरान्तरदर्शितविग्रहः मेघमध्यप्रकटितशरीरः सिद्धगणोऽपि वियति आकाशे तयोर्नरेन्द्रयोर्यश उपवीणयन् वीणया गायन् सन् त्रिभुवनं भ्रमति स्म च पुनवैरिणः किमु मुहुर्न मुमुहुः । अपि तु मुमुहुरेव ॥ द्रुतविलम्बितं वृत्तम् ॥ प्रतिनिनदमयासीदेवतूर्यदिगन्तश्चलदलिकुलनीला पुष्पवृष्टिः पपात । स्तुतिमकृत सरस्वत्यम्बरेऽदृश्यरूपा कुसुमसुरभिरुच्चैरुद्ववौ मातरिश्वा॥५१॥
प्रतिनिनेति ॥ दिगन्तः दैवतूः सुरवायैः प्रतिनिनदं प्रतिध्वानम् अयासीत् , चलदलिकुलनीला भ्रमद्भमरभरश्यामा पुष्पवृष्टिः पपात, अम्बरे गगने अदृश्यरूपा सरस्वती स्तुतिमकृत, कुसुमसुरभिः पुष्पगन्धी मातरिश्वा पवन उच्चैर्ववौ ॥ मा. लिनी वृत्तम् ॥
लोकातिरिक्तमनयोर्बलशौर्यवीर्यमालोक्य रूपमभिमानधनंजयं च । मोक्तुं नचैकमुभयोरशकञ्जयश्रीन्ता स्वयंवरविवाहपतिवरेव ॥ १२॥ इति श्रीधनंजयविरचिते धनंजयाङ्के द्विसंधानकाव्ये राघवपाण्डवीयापरनान्नि
खरदूषणवधगोग्रहनिवर्तनं नाम षष्ठः सर्गः समाप्तः । लोकेति ॥ जयश्रीरनयोनरेन्द्रयो.कातिरिक्तमलौकिकं बलशौर्यवीर्यमेतत्समाहारम् रूपम् अभिमानधनं जयं चालोक्य भ्रान्ता सती, स्वयंवरविवाहपतिंवरा इव, उभयोर्नरेन्द्रयोरेकमपि मोक्तुं त्यक्तुं नाशकत् ॥ वसन्ततिलका वृत्तम् ॥ इति श्रीदाधीचजातिकुद्दालोपनामकश्रीच्छोटीलालात्मजश्रीबदरीनाथविरचितायां
द्विसंधानकाव्यटीकायां खरदूषणवधगोग्रहनिवर्तनं नाम षष्ठः सर्गः ।