________________
६४
काव्यमाला
बभौ महल्लोहितसंभृतं सरः प्रपीयमानं तटवर्तिभिः खगैः । यमेन रक्तं विनिगीर्य देहिनामजीर्णमुद्गीर्णमिवातिपानतः ॥ ४२ ॥
बभौ इति ॥ लोहितसंभृतं रुधिरपूर्ण महत् सरः तटवर्तिभिः कूलस्यैः खगैः पक्षिभिः प्रपीयमानं सत् यमेन देहिनां रक्तं विनिगीर्य विशेषतः पीत्वा अतिपानतः उद्गीर्णमजीर्णमिव, बभौ ॥ उत्प्रेक्षा ॥
गता हयेभ्योऽप्यसवोऽतिवेगतो गजा मुमूर्छः शरवर्षतोऽगजाः ।
रथा विभिन्नाः पतिता मनोरथा नरा गतास्ते न समानरागता ॥ ४३ ॥ गता इति ॥ शरवर्षतो बाणवृष्टथा, हयेभ्योऽश्वेभ्योऽतिवेगतः शीघ्रमेव असवः प्राणा गताः । तथा अगजा पर्वतजा गजा मुमूर्छुः । रथा विभिन्नाः । मनोरथाः पतिता भ्रष्टाः । ते योधा नरा गताः पलायिताः । समानरागता मानेन सहितो रागो येषां तद्भावः न गता ॥ समुच्चयः ॥
तथा द्विपेन्द्रास्तुरगाः पदातयो महान्वया भूपतयः क्षणेन तत् ।
गतं समस्तं समवर्तिनो मुखं च्युतं न चोद्यं स्थितमेव विस्मितम् ॥४४॥
तथेति ॥ तत् पूर्वोक्तं समस्तं बलं क्षणेन समवर्तिनो यमस्य मुखं गतम् मृतम् । यत् च्युतं नष्टं तत् न चोयम् नाश्चर्यम् । यत् स्थितं जीवितं तदेव विस्मितं विस्मयः ॥
तथाहि भोगाः स्तनयित्नुसंनिभा गजाननाधूननचञ्चलाः श्रियः । निनादिनाडिधमकण्ठनाडिवच्चलाचलं न स्थिरमायुरङ्गिनाम् ॥ ४९ ॥ तथाहीति ॥ भोगा मेघसंनिभाः, श्रियः करिवदनप्रकम्पचञ्चलाः, चलाचलं निनादिनाडिँधमकण्ठनाडिवत् नालिकया फूत्कारवेलायां किंचिन्नादसत्वेन फूत्कारिस्वर्णकारकण्ठनाडिवत् न स्थिरम्, अङ्गिनां देहिनाम् आयुः न स्थिरम् ॥
अशेषमाकीर्णमुपैति शून्यतां क्षणाद्वियुङ्क्ते समवेतमुच्चकैः ।
यदेव रक्तं भजते विरक्ततामहो नु भावाः क्षणिकाः स्वभावतः ॥ ४६ ॥
अशेषमिति ॥ आकीर्ण संचितम् । अशेषं सकलं क्षणात् शून्यतामुपैति, उच्चकैः अतिशयेन समवेतं संबद्धं क्षणात् वियुङ्क्ते वियोगं भजते । यदेव रक्तं सानुरागं तत्क्षणात् विरक्ततां वैराग्यं भजते । अहो तु भावा: पदार्थाः स्वभावतः क्षणिकाः सन्ति ॥
ततः स्फुटं पञ्चकमीक्षमाणौ तौ सिंहपोताविव विक्रमेण । निर्जग्मतुर्युद्धमुखान्नरेन्द्रौ क्रोधाभिमानाविव मूर्तिमन्तौ ॥ ४७ ॥
तत इति ॥ ततोऽनन्तरं तौ नरेन्द्रौ रामलक्ष्मणौ भीमार्जुनौ च पञ्चकं रणम् ईक्षमाणौ सन्तौ युद्धमुखात् रणभूमितः विक्रमेण सिंहपोतौ इव, मूर्तिमन्तौ क्रोधाभिमानौ इव, निर्जग्मतुः निर्गतवन्तौ ॥ उत्प्रेक्षा ॥ वृत्तमुपजातिः ॥